2023-07-15 11:45:39 by ambuda-bot

This page has not been fully proofread.

युत्
 
(673)
 
'युक्तम् " (ख)
 
'न्याय्ये' इत्यस्यार्थः । 'युक्तं सिताम्बराणां तुम्बग्रहणं कुटुम्बपरिहरणम्'
इति वर्धमानः । 'पौरव ! युक्तं नाम ते' (शाकुन्तले 5-20-21 )।
 
(674)
 
'युक्" (नि.)
 
निन्दार्थकोऽयमिति शब्दकल्पद्रुमः । उदाहरणं मृग्यम् ।
 
66
 
(675)
 
"युगपत् " (ख.)
 
313
 
'एककाले' इत्यर्थ: । 'तद्वल्गुना युगपद् उन्मिषितेन तावत्'
( रघु. 5.68) क्रियासमभिहारोऽपि कचिदर्थ:– 'युगपज्ज्ञानानुत्पत्तिर्मनसो
लिङ्गम् (न्यायसूत्रम् 1.1-16 ) । उपदेशे तबगेतृतीयान्तोऽयम् । अन्यथा
'योगपद्यम्' इत्यत्र दकारो न श्रूयेत ।
 
(676)
 
"युत् " (च.)
 
कुत्सार्थकोऽयं चादिषु प्रौढमनोरमायां पठितः । क्लीबान्तो ऽयमिति
 
केचित् । 'पुत्' इत्यस्य निन्दार्थकस्य पाठभेदोऽयमिति परे ।