2023-07-15 11:45:39 by ambuda-bot

This page has not been fully proofread.

312
 
यावत्तावत्
 
हेतौ — 'यावद् भवत्वाहितसायकस्य' (कुमार. 3-4 ) ।
सीम्नि- यावपुरं वृष्टो देवः ।
 
सम्भ्रम विवरणादयोऽष्यर्थाः ।
 
सम्भ्रमे —– यावत् सर्पकोडरम्। विवरण – 'बिडौजाः मरुत्वान्, इन्द्र
इति यावत् ' । 'स यावत् विप्रतां गतः' इत्यत्र पक्षान्तरेऽपि क्वचिदयं पठ्यते ।
 
'भविष्यदर्थं सातत्यं यावद् अप्रतियुग् बदेत्' इति विकाण्ड-
शेषः । अस्यायमर्थः -- तावच्छन्दा सहचरितः केवलो यावच्छब्दो भविष्यदर्थ
सातत्यं च अभिदधातीति। तेन 'शङ्क सम्प्रति यावद् अभ्युदयते तत् त्वष्टृ-
टङ्कोन्मृजारज्यद्विम्बरजश्छटावलयितो देवस्विषामीश्वरः ।' (अनर्घराघवे 2-6)
इत्यत्र 'यावत्पुरानिपातयोल्ट्' ( 3-3-4) इति भविष्यदर्थे लट् ।
 
अधिकारार्थेऽपि कचित् प्रयुज्यते ।
 
'अधिकारः सौमैव' इति
 
तिलकः ।
 
(671)
 
यावता" (नि.)
 
पक्षान्तरार्थकोऽयं चादिषु पठ्यते । तिलकादिभिव्यख्यातश्च । उदा-
हरणं मृग्यम् ।
 
(672)
 
"यावत्ता वत्" (नि.)
 
'बीजगणितप्रसिद्धे अध्यक्तमानानयनाय कल्प्ये प्रथमे राशौ अयं
 
प्रसिद्धः' इति वाचस्पत्यम् । यावच्च तावच्च इति वृत्तिः ।