2023-07-15 11:45:38 by ambuda-bot

This page has not been fully proofread.

यद्यवा
 
(662)
 
'यदि " (च.)
 
पक्षान्तरे, सम्भावनायां च वर्ततेऽयम् । गर्हाविकल्पावपि मेदिन्या-
मुक्तौ । पक्षान्तरे – 'यदि मतम् शब्दोऽनित्य इति ?' । सम्भावनायाम् -
'यदि सर्वमनित्यमिदं न भवेत् इह जन्मनि कस्य रतिर्भवेत् ' । 'यत्ने कृते
यदि न सिद्धयति कोऽत्र दोषः' इत्यादिष्वपि सम्भावनैवार्थः ।
 
यदिवा इति विकल्पार्थे । यथा – 'यद्वा जयेम यदिवा नो जयेयुः '
(गीता 2.6) 1
 
यद्यपि इत्यर्धाङ्गीकारे निपातसमुदायः । 'यद्यप्यत न सन्दृष्टं
परार्थप्रतिपादनम्' । 'तथापि' इत्यनेन साकमेत्रायं प्रयुज्यते - स्वाभाव्यात् ।
 
309
 
यदिच, यदिकिञ्चित्, यद्येवम्, यदिनाम इत्यादयो निपात -
समुद्राया यथासम्भवमर्थान्तरेषु बोध्या: । यदिपरम् इत्यपि समुदितं पक्षान्त-
रद्योतकमव्ययम् प्राचीनतर्कग्रन्थेषु प्रसिद्धम् ।
 
(663)
 
यदुत" (च.)
 
-
 
वाक्यार्थनिर्देश] वर्ततेऽयम् । 'स त्वया वाच्यः – यदुत इहागम्यताम्' ।
(+उत' इति निपातद्वयसमुदायोऽयम् ।
 
'यद् +
 
66
 
66
 
(664)
 
यधुवा" (नि.)
 
यदि + उ + वा इति निपातत्त्रयसमुदायोऽयं यद्यर्थे वर्तते । 'यधुवा
उभयं चिकीर्षत हौत्वं ब्रह्मत्वं च । छान्दसोऽयमिति केचित् ।