2023-07-15 11:45:37 by ambuda-bot

This page has not been fully proofread.

308
 
यदा
 
'यथायथम्, यथार्थम्, यथार्हम्, यथाशक्ति, यथावशम्, यथाशाखम,
यथास्वम्, 'यथाहिरुकम्, यथेप्सितम्, यथेष्टम्, यथोचितम् इत्यादयोऽत्र्य-
यीभाव समासेऽव्यय संज्ञका इति ज्ञेयम् । योग्यतादिष्वत्र यथासम्भवमर्थाः
स्वयमेवोह्याः ।
 
(661)
"यदा " (त. च.)
 
यच्छन्दात्
 
कालबाचकात् 'सर्वेकान्य किंयत्तदः
 
काले —
यदा = यस्मिन्
 
( 5-3-15) इति दाप्रत्यये त्यदाद्यत्वपररूपयोश्च रूपमेवम् ।
काले इत्यर्थः । 'यदा यदा हि धर्मस्य ग्लानिर्भवति भारत' (गीता 4.7 )।
हेत्वर्थकत्वमपि 'यदा जनैस्सर्वगतस्त्वमुच्यसे' (कुमार-5-58) इत्यादिषु दृश्यते।
तदानीं चादिषु पाठात् तथा त्वमिति बोध्यम् ।
 
यदान, यदावा, यदैव, यदाप्रभृति इत्यादयो निपातसमुदायाः
सन्दर्भानुसारेणोच्चावचेष्वर्येषु कविभिः प्रयुज्यन्ते । तानि यथोचितं स्वयमेवो-
ह्यानि ।
 
1. 'यथास्थे यथायथम्' (8-1-14) इत्याष्टमिक द्विर्षचनप्रकरणे निपात-
मात् साधु: । यद्यत् आत्मीयम् तस्मिन् इत्यर्थः । 'गताः सर्वे
यथायथम् । अस निपातनात् यथाशब्दस्य द्विषेश्चनम्,
पक्षे
क्लीबस्वं च इति बोध्यम् । 'हस्बोनपुंसके प्रातिपदिकस्ब' (1-2-47 )
इत्युचरभागे हस्ब: । अव सूले निर्देशात् 'यथास्वम्' इत्यतापि
पदार्थानतिवृत्तावग्ययीभाव समासे क्लीनर पाक्षिकमिति शेयम् ।
 
2. अशरप्रभृतिषु (5-4-107) पाठात् समासान्तप्रत्ययः ।