2023-07-15 11:45:37 by ambuda-bot

This page has not been fully proofread.

305
 
66
 
यथा
 
(658)
 
यत् " (च.)
 
हेत्वर्थकोऽयम् । ' अत्र स्थिता तृणमदात् बहुशो यदेभ्यः सीता ततो
हरिणकर्न विमुच्यते स्म) ( उत्तरररामचरिते) । 'यद् अयमधौते, तज्जानाति' ।
 
यत् तत इत्येतौ मिलितादेव हेत्वर्थबोधको शब्दशक्तिस्वा-
भाव्या दिव्यवधेयम् ।
 
'यदा प्रभृति' इत्यर्थे 'यत्प्रभृति' इति तिष्ठद्गुगणे पठयते । क्रिया-
विशेषणमेतत् । 'यत्प्रभृति तामपश्यस्तत्प्रभृति त्वं भृशं मुग्धः ।
 
66
 
(659)
 
यत्र" (त.)
 
सप्तम्यर्थकोऽयम् । यच्छन्दात् 'सप्तम्यास्त्रन्द' ( 5-3-10 ) इति वल्प्र-
त्यये, त्यहायवे पररूपे च रूपमेवम् । 'यत्रकुल कुले वासः
 

 
-
 
अनवक्ऌप्तिगर्हामर्षाश्चर्येष्वपि वर्तते । यथा – 'नावकल्पयामि गहें,
 
न मर्पये, आश्चर्य वा, यत्र भवान् बालं घातयेत्' इति । एष्वर्येषु चादिरयम् ।
 
(66U)
 
"यथा" (त.)
 
योग्यतात्रीप्सापदार्थानतिवृत्तिसादृश्येषु वर्तते । योग्यतायाम् -
यथाश्रुतम् दक्षिणा । श्रुते योग्या दक्षिणा इत्यर्थः । वीप्सायाम् – यथावृद्धं
ब्राह्मणान् आमन्त्रयस्व । ये ये वृद्धाः यथावृद्धम् इति वीप्सा । पदार्थानति-