avyayakośa /341
This page has not been fully proofread.
यतः
305.
स्त्रियं घातयेत्' । अमर्षे– 'न मर्षयामि यच्च तत्रभवान् बालं घातयेत्' ।
आश्चर्ये-——'आश्चर्यम्, यच्च तत्त्रभवान् शिशुमध्यापयेत्' । अत्र सर्वत्र 'अनबक्ऌ-
प्त्यमर्षयोरकिंवृत्तेऽपि ( 3-3-145) इति लिङ् । यत् +च इति निपातद्वय-
समुदायोऽयम् ।
66
(657)
यतः " (आ.)
हेतुरस्यार्थः । येन, यस्मिन् वा इत्यर्ये आयादित्वात् यच्छन्दात् सार्व-
विभक्तिकस्तसिप्रत्ययः । तसिप्रत्ययस्य विभक्तिसंज्ञकत्वात् 'त्यदादीनाम्-'
(7-2-102) इति अकारे, पररूपे च रूपम् । तृतीयार्थे – 'आददीत यतो
ज्ञानं तं पूर्वमभिवादयेत् ।' (मनुः 2-117 ) । सप्तम्यर्थे – 'अषतञ्चेन्दुना
सार्धं तां प्रवृत गता यतः ।' (भ. का. 6-26 ) । यतः यत्रेत्यर्थः ।
पञ्चम्यादिष्वपि तसिप्रत्यये यत इति सम्पद्यत एत्र । 'यतः प्रवृत्तिर्भूता-
नां — ' (गीता 18-46 ) इत्यत्र यथा ।
यतो भवान्, यतो भवन्तम्, यतो भवते, इत्यादिषु तु 'इतरराभ्योऽपि
दृश्यन्ते' (5-3-14) इति तसिन्दप्रत्यय इति ज्ञेयम् । इयान् विशेषः
'इतराभ्यः–' (5-3-14) इत्यत्र 'भगद दिभियोग इति वक्तव्यम; के पुनर्भव-
दादयः ? भवान्, दीर्वायुः, देवानांप्रियः, आयुष्मान् इति ' (भाष्यन् 5-3-14)
इति वचनात्, 'यतो भत्रान्, यतो दीर्घायुः' इत्यादिषु स्थलेष्वेव (भवदादि..
मिरुपपदैस्सह प्रयोग एव) तसिल इति । एवमेत्र 'कुतो भवान् ततो भवान्'
इत्यादिष्वपि स्वयमूह्यम् ।