2023-07-15 11:45:36 by ambuda-bot

This page has not been fully proofread.

मिथ:
 
(643)
मातावत् " (नि.)
 
'मा+तावत् ' इति
 
निपातद्वयसमुदायोऽयं निषेधानिश्चययो वर्तते ।
 
निषेधे – मातावद् बद । अनिश्चये - मातावद् भुङ्क्ष्य । 'माताबद् भोः'
इत्यत्न अमर्षोऽपि निषेध एत्रान्तर्भवतीति तिलकः ।
 
एवम् 'मा+स्म' इत्यपि निपातद्वयसमुदायो वारणे वर्तते । 'इत-
राजसथेषु मास्म भूद् अपि मे जन्म चतुमुखात्मना' (स्तोत्ररत्नम् 55 ) ।
 
रूपक मिदम् ।
 
301
 
(644)
 
मालायाम् " (च.)
 
अल्पपरिमाणवाचकोऽयम् । 'मात्रायां भोजकः' । विभक्तिप्रति.
 
(645)
 
" मास्य (च.)
 
अनिर्दिष्टार्थकोऽयं चादिषु कैश्चित् पठथते । छान्दसोऽयम् ।
 
(646)
"मिथ:" (स्व.)
 
रहोऽन्योन्यार्थयोरयं वर्तते । रहसि तथापि बाचालतया युनक्ति
 
(
 
मां मिथस्त्वदामात्रणलोलुप मनः ' (माघे 1-40)। अन्योन्यायें
' मिथः सम्प्रवदन्ते पण्डिताः' । छन्दसि तु अनुक्रमेण ' इत्यर्थेऽपि
दृश्यते । यथा – 'सूर्या मासा मिथ उच्चरात: ॥' (ऋक् 10-68-10 ) ।
 
-