2023-07-15 11:45:36 by ambuda-bot

This page has not been fully proofread.

मा किड
 
66
 
(638)
 
महत्" (व.)
 
ऊर्ध्वस्थिते लोकमेदे प्रसिद्धः । महर्लोकः । वैपुल्यवाचकः बान्तो
 
महच्छग्दोऽन्यः । सप्तव्याहृतिषाचकोऽयमन्य: । 'महदादितश्च कार्यम्' इति
लोकान्तरवाचकत्वेन समस्त प्रयोगो भ्रान्तिमूलक इति तिलकः ।
 
(639)
 
"मा" (च.)
 
निषेधाशङ्कावरणादयोऽस्यार्थाः । निषेधे – 'अरसिकेषु कविन्य-
निवेदनं शिरसि मा लिख मा लिख मा लिख' । आशङ्कायाम् –'मा भविष्यति
शीतार्ता जानकी हृदयस्थिता ।' 'मा करिष्यति साहसम्' । बारणे-
'मा पिब सलिलं शीतं पिब सन्तप्तं तदेव वहयाद्यैः' ।
 
299
 
डिदनुबन्धविशिष्टो 'माङ्' इत्ययमन्य एतत्समानार्थकः, अयमध्यन्य: ।
तदेतदुत्तरत्न व्यक्तीभविष्यति । 'मा स्वयं मन्युमुत्पाय- (प्रतिमानाटके
1-10) इत्यादिषु 'मा' इत्यङित् । तेन न क्वाप्रत्ययस्य प्रतिबन्ध इति ज्ञेयम् ।
 
(640)
 
"माकिः " (चा.)
 
बारणार्थकोऽयम् । 'रक्षा माकिनों अघशंस ईशते' । (तै. सं.
1-4.24.1) 'पापिष्टः राक्षसा अस्माकं मा प्रभवन्तु' इत्यर्थः । वर्जनार्थकोऽपि
कचित् पठयते । 'माकिस्' इति शाकटायनः ।