2023-07-15 11:43:58 by ambuda-bot

This page has not been fully proofread.

गत्वादिनिमित्तंभूताः, कमंप्रवचनीयास्तु द्वितीयादिप्रवृत्तेर्निमित्तभूता इति कार्य-
6
 
9
 
9
 
मेदोऽपि पृथग् विद्यते । उपसर्गास्तु ते प्राग् धातो: (1-4-80) इति
शास्त्रात् धातोः पूर्वमेव प्रयोगाहां इति प्रयोगनियमस्तेषाम् [नैवं कर्मप्रवच-
नीयामिति भिदा । इत्येवमाढयो यथासम्भवमनुसन्ध्या: । विस्तरभिया विरम्यते ।
एवंविधानां चतुर्णामपि निंपातत्वं समानम् । निपाता अनेका इत्यत्न
 
66
 
इयन्त इति संख्यैषां निवातानां न विद्यते ।
 
प्रयोजनवशादेते निपतन्ति पदे पदे ॥
चन प्रमाणीकुन्ति ।
 
भोजेन शृङ्गारप्रकाशे ( प्रथमप्रकाशे )
 
"जात्यादिप्रवृत्ति निमित्तानुपग्राहित्वेन असत्त्वभूतार्थाभिधायिनोऽलिङ्ग-
संख्याशक्तय उच्चावचेष्वर्येषु निपतन्तीति अव्ययविशेषा एव चादयो निपाताः ।
........ ते खलु विध्यर्थाः, अर्थवांदार्थाः, अनुवादार्थाः, निषेधार्थाः विधि.
निषेधार्थाः, अविधिनिषेधार्थाः इति पोढा सम्भवन्ति ।" इत्यारभ्य विस्तरेणो-
दाहृतमनुसन्धेयं तत एव । एतेषु
 
"केऽप्येषां द्योतकाः, केऽपि वाचकाः, केऽप्यनर्थकाः ।
आगमा इव केऽपि स्युः सम्भूयार्थस्य वाचकाः ॥"
 
(बृहहेबता 2.95 ) इति
 
(वाक्यपदीयम् 2-194)
 
इत्युक्तदिशा पादपूरणार्थानां वाक्यालङ्कारार्थानां च अनर्थकत्वम्,
 
'कश्चित् किश्चित्' इत्यादिपु किशब्दोत्तरमागम इवागत्य सम्भूयार्थबोधकत्व
'चित्' इत्यादीनां इति च बोध्यम्
 
2
 
तदप्युक्तम्-
" उच्चावचेषु चार्थेषु निपाता: समुदाहृताः ।
कर्मोपसंग्रहार्थे च कचिदौपग्यकारणात् ॥