2023-07-15 11:45:34 by ambuda-bot

This page has not been fully proofread.

भरे
 
289
 
गाग्यस्य ' (8-3-20) इति यकारस्य लोपे 'भगो इह ' इति सम्पद्यते ।
शाकटायनमते तु ' व्योर्लघुप्रयत्नतर:-' (8-3-18) इति' यकारे 'भगोयिह '
इति भवति । 'भगो हसति' इत्यादिस्थलेषु तु 'हलिं सर्वेषाम्' (8-3-22) इति
नित्यो यकारलोप इति विशेषः । - इत्यभ्युपगम्य व्युत्पन्नत्व बदन्ति । " भगो
ब्राह्मणि' इत्यादिसिद्धयर्थं अव्युत्पन्नस्यापि 'भगोः' इत्यस्याभ्युपगमो भाष्यादि-
सम्मत एव । 'भोभगो—' (8-3-17) इति सूत्रे तु व्युत्पन्नाव्युत्पन्नयो-
रुभयोरपि ग्रहणं मन्यन्ते इत्यास्तां तावत् ।
 
(608)
 
"मद्रा" (सा.)
 
आलोचनप्रशसामङ्गलेषु साक्षात्प्रभृतिषु पठयते । अभद्रा भद्रा कृष्णा
भद्राकृत्य । साक्षात्प्रभृतिषु च्व्यर्थस्यैव बोधादेवं वृत्तिः । अभद्रां भद्रां कृत्वेति
केचित् सविभक्तिकं विग्रहं कुर्वन्ति । 'मद्राच्च इति वक्तव्यम्' (बा. 5-4-67)
इति वचनात् परिवापणे [= मङ्गलार्थमुण्डनार्थे] गम्ये भद्रशब्दात् कृञो योगे
डाच् । तस्यैव साक्षात्प्रभृतिषु पाठ इति केचिन् । परे तु डाजन्तोऽन्यः,
अयमन्य इति, यतो डाजन्तस्य भूततद्भावो नार्थः । अस्य तु व्यर्थोऽन्तर्भूतो
दृश्यते - इति साधयन्ति । 'भद्राकरोति नापितः कुमारम् ।
 
-
 
(609)
 
"भरे" (ख.)
 
युद्धार्थकोऽयमतीवाप्रसिद्धः । छान्दसोऽयमित्येके ।