2023-07-15 11:45:34 by ambuda-bot

This page has not been fully proofread.

288
 
याम्-
वक्तु
 
भगो
 
66
 

 
तद् ब्रूहि मम तथ्येन —'। अवसरे — 'ब्रूहि दृष्टं यथावत् ।
प्राप्तकाल इति यावत् ।
 
इदमत्रावधेयम् । 'ब्रूहिप्रेष्यश्रौपट्वौषडावहानामादेः' (8-2-91) इति
सूत्रे श्रौषवषयां साहचर्यात् ब्रहियेष्ययोरपि निपातयोरेव ग्रहणमिनि
तिल कवर्धमानप्रभृतीनामाशय: । वस्तुतः 'प्रेष्यब्रवोह विषो देवतासम्प्रदाने
(2-3-61) इस्यत्र काशिकादिषु प्रतिपादितया रीत्या 'प्रैषातिसर्गप्राप्तका-
लेषु – ' (3-3-163) इति ब्रुवो लोटयेव ब्रूहि इति सिद्धे तिङन्तप्रतिरूपका-
व्ययत्वकल्पनमस्या न्याय्यमिति भाति । अत एव 'अग्नयेऽनुब्रूहि' इत्यत्र
'तिङ् अतिङ: ' (8-1-28) इति अनुदात्तत्वमपि 'ब्रूहि' इत्यस्य संगत
भवति । अन्यथा 'ब्रूहि ' स्य त्वद्रीत्या अतिङन्तत्वेन खरानापत्तेः ।
 
सम्भवत्यां गतौ तिङन्त प्रतिरूपकत्वकल्पनमन्याय्यं च, इत्यास्तां तावत् ।
 
66
 
(607)
 
भगो " (नि.)
 
पूजार्थकोऽयं निपात: । 'भगो इन्द्र ! ' । आमन्त्रणमत्र द्योत्यम् ।
तथाहि – 'एवं भगो इह भवत्परतन्त्र एव शब्दोऽपि रूपबदमुष्य चराचरस्य ॥
(वैकुण्ठस्तवे ३३) इत्यत्र यथा ।
 
इदमव्युत्पन्नं प्रातिपदिकमिति बहवः । केचित् तु ' विभाषा भवद्भग-
बदघवताम् ओत् च अवस्य' (वा. 8-3-1) इति वार्त्तिकेन भगवच्छब्दस्य
सम्बुद्धौ रुत्वम्,
प्रकृतिगतस्य ' अव' इत्यस्य ओकारश्च । तेन 'भोभगो-
अघोअपूर्वस्य योऽशि' (8-3-17) इति रेफस्य यकारादेशे,
' ओतो