2023-07-15 11:45:34 by ambuda-bot

This page has not been fully proofread.

284
 
बहिस्
 
इवार्ये अहार्ये च विहितो यो वतिप्रत्ययः सोऽव्ययसंज्ञक इति । अत्र यथा-
सम्भव बलमर्हतीति अर्हार्थे, बलेन तुल्यमिति तुल्यायें वा वतिः । एतेन बलम-
स्यास्तीति मतुपि, मकारस्य वकारः – इति वाचस्पत्यनिर्वचनं निष्प्रमाण-
कमिति ज्ञेयम्। विस्तरस्तु अग्रे ('वत्' इत्यत्र) भविष्यति ।
 
(595)
 
"बलात् " (ख.)
 
हठार्थकोऽयम् । 'बलाद् आकृष्टानां कतिपयपदानां रचयितुर्घटानां
निर्मातुस्त्रिभुवन विधातुश्च कलह: ' । बलात्कृत्य, अत्र अनुकरणशब्दत्वं कथ
श्चिदभ्युपेत्य गतिसंज्ञां सम्पाद्य कृञो योगे ल्यप् बोध्यः । अन्यथा क्त्वो ल्यप् न
भवेत् । विभक्तिप्रतिरूपकं 'चिरात्, सनात्, हठात्, आरात्' इत्यादि-
सदृक्षमव्ययमिदं स्वरादिषु पठयते । व्युत्पत्तिपक्षे तु बलमततीति क्विपि
निष्पत्तिज्ञया ।
 
(596)
"बहलम् " (नि.)
 
"
 
हठादर्थकोऽयम् । 'आर्य बहलं गृह्णाति । तिलकाद्यनुसारेणाय
पठितः। बर्धमानादयस्तु 'आर्यहलम्' इत्यल पठन्ति । बहुत्ववाचकबहुल-
समानार्थको बहलशब्दोऽनव्ययोऽस्माद् [भिन्नः :; तमो नाम द्रव्यं बहलविलं
मेचकचलम् – '(तत्त्वसारे) 'बहलोचुङ्गलाल —' इत्यादिषु प्रयुक्त
 
इति ज्ञेयम् ।
 
(597)
"बहिस्" (स्व.)
 
बाह्यमस्यार्थः । 'बहिर्विकारं प्रकृतेः पृथग्र बिंदु: (माघे 1-33 ) ।
बहिष्कृतम् । अत्र 'इदुदुपधस्य —' (8-3-41) इति षत्रम् ।