2023-07-15 11:45:33 by ambuda-bot

This page has not been fully proofread.

281
 
फली
 
पदि हस्तिनं बाहयति । 'प्रोद्यपादि' इति क्वचित् दृश्यते; स तु अपपाठः ।
यतः 'पाद: पत्' (6-4-130) इति पद्भाव एवाङ्गस्य भसंज्ञकत्वात् न्याय्यः ।
प्रोह्य–विसाय पादौ शेते प्रोह्यपदि इति केचित् ।
 
(588)
 
'फट् " (चा.)
 
विघ्नप्रतिहतस्य उत्सारणेऽयं वर्तते ।
 
'हुं फट् प्रतिहतोऽसि' ॥
अनुकरणशब्दोऽप्यपम्– 'फट् इति स्फुटितम्' इत्यत्र यथा । अस्य इति-
परकत्वाभावे 'अनुकरणं च–' (1-4-62) इति गतिसंज्ञायाम्, कृञो योगे
समासे व्यपि 'फट्कृत्य' इति सिद्धयति ॥ 'वीर्यायास्त्राय फट्' इत्यत्र अस्त्र-
मन्त्रस्य बीजाक्षरत्वेन,प्ययं पठघते। बीजाक्षरस्त्रेऽपि 'बीजकूटमालामन्त्राः' इति
तिलकोक्त्याऽव्ययत्वं ज्ञेयम् । एवमेव 'कुं, खुं, जं, गं, शं' इत्यादीनां तत्तन्मत्न-
बीजाक्षराणामपि अव्ययत्वमिति ज्ञेयम् ॥ 'यस्मै वेडे तत् सत्यमुपरि श्रुता
भङ्गेन हतोऽसौ 'फट्' (शुक्लयजुः 7-3) इत्यत्र 'फलतीति फट् । डलयोरै-
क्यम् । वाहाकारस्थाने 'फट्' इत्यभिचारे प्रयुज्यते" इति महीधरोक्ख्या
प्रोक्षणविकिरणादिषु
क्षुद्रयोगेऽस्य स्वाहाशब्दप्रतिनिधिःश्रमपीति गम्यते ॥
 
मन्त्रशास्त्रेऽस्य बहुलं विनियोगः प्रदर्शित इति विस्तरस्तत्रैव ।
 
(589)
 
" फली " (ऊ.)
 
विकारार्थकोऽयम् । 'हिंसायाम्' इति वामनः । 'विचारे' इति

 
' क्रियानिष्पत्तौ ' इति च केचित् । ऊर्यादि (1-4-61) त्वात् कृभ्वस्ति-