2023-07-15 11:45:33 by ambuda-bot

This page has not been fully proofread.

276
 
प्रादुस्
 
(577)
 
प्रादुम्" (स्व. सा. ऊ.)
 
रेफान्त:, विसर्गान्तश्च क्वचित् पठथने। नामप्राकाश्ययोरस्य वृत्तिः ।
 
,
 
नाग्नि--- दश प्रादुर्भावाः । मत्स्यकूर्मादयो दश नामानौत्यर्थः । प्राकाश्ये--
6
 
प्रादुष्षन्ति न सन्त्रासा यस्य रक्षः समागमे ।' (भट्टिः. 9-81)। अत्र
 
6
 
• उपसर्गप्रादुर्भ्यामस्तिर्यच्पर:' (8-3-87) इति षत्वम् । 'प्रादुम्' इत्यत्न
सकारस्य ष्टुत्वेन षकार: । एवम् 'प्रादुण्यात्' इत्यत्रापि । अस्य ऊर्यादित्वात्
(1-4-61) यद्यपि क्रियासामान्ययोगे गतित्वमनुशिष्टम्; तथापि कृभ्वस्ति-
भिस्त्रिभिरेव योगः प्रयोगे दृश्यते - प्रादुष्कृतम्, प्रादुर्भूतम् प्रादुरासीत्
इति । प्रादुष्पत्तिः इति पद्धातावपि कचिदेतदासञ्जितम् । साक्षात्प्रभृति-
ब्वप्यस्य पाठात् च्व्यर्थे गम्ये कृञा सहव योगः – प्रादुष्कृत्य, प्रादुः कृत्वा
इति । तिलकेन तु गतिप्रतिरूपकत्वमाश्रित्य 'प्रादुर्भूतमधोक्षजम्' इति
प्रयोगो निर्व्यूढः । क्रियायोगे गतिसंज्ञयैव 'कुगतिप्रादयः' ( 2-2-18 ) इति
समासे सिद्धे, एवमुक्ते: स्वरप्रसिद्धिरेव फलमिति ज्ञेयम् । अन्यथा गति-
स्वरापत्तेः ।
 
-
 
प्रादुष्यम् । अत्र च बाहुलकात् स्वार्थे [= प्रादुर्भावार्थे] यत्प्रत्ययः ।
न च वाच्यम् –' अव्ययात् त्यप्' (4-2-104) इति त्यसैव सिद्धे किमर्थं
बाहुलकाश्रयण मिति; यतस्तत्र 'अमेहकतसिलेभ्यः' (वा 4-2-104) इति
परिगणितत्वात् रूपासिद्धेः । अत एव उज्ज्वलदत्तेन 'प्रादुष्यम् प्रादुर्भावे
इति बाहुलकयतैव साधितम् (पञ्चपाणादिवृत्तौ 2-118)।
 
3