2023-07-15 11:43:43 by ambuda-bot

This page has not been fully proofread.

इति ॥
 
उपसर्गपूर्वमा ख्यातमनुदात्तं विगृह्यते ।
उदात्तं यत् समस्थेत उपसर्गो निहन्यते ॥"
 
४. कर्मप्रवचनीयः ।
 
9
 
कर्म प्रोक्तवन्तः कर्मप्रवचनीयाः ।
'कृत्यल्युटो बहुलम् ( 3-3-113) इति बाहुलकात् कर्तरि अनीयर प्रत्ययः
तेच अनु, उप, अप, परि, आङ्, प्रति, अभि, अधि, सु, अति, अपि, इति
एकादश । कर्मशब्देन सा कियोच्यते- यया साम्प्रतननुष्यमानयाऽपि किया-
सम्बन्धोऽवगम्यते । तदुक्तम्-
इति ।
 
( अथर्ववेदप्रातिशाख्यम् 1-11, 12 )
 
66
 
क्रियाया द्योतको नायं सम्बन्धस्य न वाचकः ।
 
नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः ॥ "
 
( वाक्यपदीयम् 2-206)
 
इति । द्योत्यार्थनिष्ठं द्योतकत्वं 'शाकल्यस्य संहितामनु प्राबर्षत्" इति
कर्मप्रवचनीयस्थले क्रियापदप्रयोगात् न सम्भवति । एवम्, विभक्तरेव सम्बन्ध -
वाचकत्वात् अनोः सम्बन्धवाचकत्वमपि न सङ्गच्छते। नापि क्रियापदाक्षेपकत्वम् ;
क्रियाकारकयोरेव परस्परमाक्षेप्याक्षेपकभावस्य सर्वसंमतत्वात् । अतश्च संहिता-
प्रवर्षणयोर्हेतु हेतुमद्भावरूपो पः सम्बन्धः स एवात्रानुना योग्यते
मेदकः– विशेषकः, द्योतक इति यावत् । तदप्युक्तम्-
इत्यर्थः ।
 
-
 
" स चोपजातः संबन्धो विनिवृत्ते क्रियापदे ।
 
कर्मप्रवचनीयेन तत्र तत्र नियम्यते ॥ " (वाक्यपदीयम् 2- 201 )