2023-07-15 11:45:31 by ambuda-bot

This page has not been fully proofread.

18
 
प्रमहने
 
(568)
 
273
 
प्रसज्य (कृ. प्र.)
 
प्रपूर्वकात् सजतेर्लयपि प्रसज्य इति सम्पन्नम् । 'प्रसज्यप्रतिषेधः'
इत्यत्र ल्यबन्तप्रतिरूपकस्य प्रतिषेधशब्देन सह वृत्तिः । अन्यथा ल्यबन्तस्य
साक्षात् प्रतिषेधशब्देन सह वृत्तेरप्रसक्तेः । 'स्वरप्रतिरूपकाः' इति चादिषु
पठ्यते । तत्र तिलकेन 'प्रत्ययप्रतिरूपका अपि निपाता दृश्यन्ते इत्युक्त-
मिहावधेयम् ।
 
(569)
" प्रसलवि " (ख. च.)
 
66
 
प्रपूर्वकात् सलधातोर्चा हुलकाद् अंबिप्रत्यये, समुदायस्य चादिषु स्वरादिषु
वा पाठेऽव्ययत्वम्। 'देवतीर्थेन' इति अस्यार्थ: । 'अप [व] सलवि' इत्यस्य
प्रतिपदमेतदिति ज्ञेयम् । कल्पसूत्रेषु बहुलं प्रयुक्त: । '....प्रसलवि त्रिः
पर्येति यत् पुन: प्रसलवि....' (शतपथब्राह्मणे 2-6-11-15) इत्यत्र तु
'प्रदक्षिणेन' इति व्याख्यानम् ।
 
(570)
 
"प्रसहने " (सा.)
 
उत्साह-
साहित्य - सामर्थ्यरूपार्थेषु साक्षात्प्रभृतिषु पठित एदन्त-
निपातोऽयम् । कृञो योगे च्च्यर्थे विकल्पेन समस्यते । प्रसह नेकृत्य प्रसहने
कृत्वा । बलात्कारार्थकत्वमप्यस्य कैश्चिदनुशिष्टम् । 'प्रहसने' इति
क्वचिदपपाठः ।