2023-07-15 11:45:31 by ambuda-bot

This page has not been fully proofread.

प्रये
 
271
 
इति । अत्र सर्वत्र 'यतश्चाध्यकालनिर्माणम्' (बा. 2-3-28 ) इति पञ्चमी इति
ज्ञेयम् । 'इन्द्रप्रभृतयो देवाः' इत्यादिषु तु उत्तरपदस्थो बहुव्रीहिसमासेऽपि वृत्तिं
लभते इति बोध्यम् ।
 
(561)
 
प्रमाणतः " (त.)
 
प्रमाणेन, प्रमाणाद्धेतोर्वा प्रमाणतः । हेतुपञ्चम्यन्तात् आद्यादित्वात्
 
(वा. 5-4-44) तसिः ।
 
(562)
 
प्रमीम्" (व.)
 
सर्वत इत्यर्थे छान्दसोऽयम् । 'प्रमीमादित्योऽसृजत् ।
 
66
 
(563)
 
"प्रमृगम् " (ति.)
 
प्रगता मृगा यत्र काले, यतो वा अरण्यादेः तत् प्रमृगम् । प्रकृष्ट-
मृगायत्रेति वाचस्पत्ये विवृतम् । तिष्ठद्गुप्रभृतित्वात् (2-1-17) अव्ययीभाव-
समासः । 'प्रगताः मृगाः यस्मात् सः' इति विग्रहे तु नाव्ययीभावः ; किं तु
'प्रमृगो देश: ' इति बहुव्रीहिरेव ।
 
(564)
प्रयै " (कृ.)
 
प्रपूर्वकात् याते: "प्रये रोहिण्यै अव्यथिव्यै" ( 3-4-10) इति
 
निपातनात् कैप्रत्यय: । 'आतो लोप: - ( 6-4-64) इत्याकारलोपः ।
 
"