2023-07-15 11:45:31 by ambuda-bot

This page has not been fully proofread.

प्रदक्षिणम्
 
269
 
1-1-37 ) इति वचनात् असर्व विभक्तित्वेनाव्ययत्वम् । 'तं प्रत्नथा पूर्वथा
विश्वयमेथा (ऋक् 5-44-1 )।
 
(555)
 
प्रत्यक् " ( त )
 
दिग्देशकालेषु सप्तमीपञ्चमी प्रथमान्तेभ्यो
 
विहितस्यास्तातिप्रत्ययस्य
'अञ्चेर्लुक्' (5-3-30) इति लुकि 'लुक् तद्धितलुकि ' (1-2-49) इति
स्त्रीप्रत्ययलुकि प्रत्यक् इति सिद्धयति । सप्तम्याम् – प्रत्यक् वसति ।
पञ्चम्याम्
– प्रत्यग् आगतः । प्रथमायाम् – प्रत्यक् रमणीयम् । अत्र
अस्तातिप्रत्ययत्य लुका लुप्तत्वेऽपि प्राग्दिशीयत्वेन विभक्तिसंज्ञायाम्, 'तद्धित-
श्वासर्वविभक्तिः' (1-1-38) इत्यव्ययत्वमस्येति ज्ञेयम् ।
 
66
 
(556)
 
प्रत्युत " (चा.)
 
'प्रति + उत' इति निपातद्वयसमुदायोऽयं उक्तवेंपरीत्यार्थे वर्तते । 'न
दोषः पुनरुक्तेऽपि प्रत्युतेयमल क्रिया' (काव्यादर्शे 3-137)।
 
(557)
 
"प्रदक्षिणम् " (ति.)
 
प्रगतो दक्षिणमिति प्रदक्षिणम् । 'प्रस्तुत्य दक्षिणतो भ्रमतीति
प्रदक्षिणम्' इति गणरत्नमहोदध्युक्तिस्तु फलितार्थकथनरूपा । 'प्रदक्षिणम् =
वामम्' इति भोजः । 'प्रकृष्टत्व दक्षिणायाः प्रदक्षिणम्' इति केचित ।
तिष्ठद्गुप्रभृतित्वात् समासः तेनाव्ययीभावत्वम् । नपुंसकत्वं तु 'अव्ययीभावः '