2023-07-15 11:45:30 by ambuda-bot

This page has not been fully proofread.

प्रति
 
सादृश्ये – प्रतिकृतिः । प्रतिनिधिः । प्रतिमा ।
 
भ्रंशे–प्रतिकोणमुखः ।
 
दिग्योगे—प्रतीची दिक् । प्रत्यक्–
देश: कालो वा ।
 
व्याप्तौ – प्रतिकीर्णं पांसुभिः ।
 
सम्भावनायाम्
– प्रत्याययति ।
 
रुजि - प्रतिश्यायः ।
 
लक्षण इत्थम्भूताख्यानभाग-वीप्सा प्रतिनिधि-प्रतिदानेषु अयं कर्म-
प्रवचनीयसंज्ञां लभते ।
 
लक्षणे – 'आ रामदर्शनात् पाप विद्योतस्व स्त्रियः 'प्रति '
 
266
 
-
 
(भ. का· 8-89)।
 
इत्थम्भूताख्याने–भक्तो विष्णुं प्रति ।
 
भागे – लक्ष्मीहरिं प्रति । हरेर्भागो लक्ष्मीरित्यर्थः ।
वीप्सायाम्
– वृक्षं वृक्षं प्रति सिञ्चति । प्रतिदिनम् ।
प्रतिनिधौ– 'उद्गूर्णभागः संग्रामे यो नारायणत: 'प्रति ॥'
(भ. का. 8-89) ।
 
1.
 
'लक्षणेत्थम्भूताख्यानभागवीप्तासु प्रतिपर्यनव:' (1-1-90) इति प्रते
कर्मप्रवचनीय संज्ञा । अत्र लक्षणार्ये कर्मप्रवचनीयायम् । 'कर्मप्रवचनीय-
युक्ते –' (2-3-8) इत्यनेन 'स्लिप:' इत्यस द्वितीया । एवमुतस्त्रापि यथा-
सम्भवमूहह्यम् ।
 
2. अत्र कर्मप्रवचनीय संज्ञवा उपसर्गसंज्ञाया: बाधितत्वात् न षत्वम् ।
 
3.
 
प्रतिनिधिः मुख्यसदशः । अन्न ['प्रतिः प्रतिनिधिप्रतिदानयोः' (1-4-92)
इति कर्मप्रवचनीयसंज्ञा प्रतिनिधिप्रतिदाने च यस्मात्' (2-311 ) इति
पञ्चमी । 'प्रतियोगे पञ्चम्पास्तसिः' (5-4-44) इति 'नारायणत:' इत्या
म्यास्तसिप्रत्ययः । एवं प्रतिदानार्थेऽपि पञ्चम्यादिकमूह्यम् ।