2023-07-15 11:45:29 by ambuda-bot

This page has not been fully proofread.

प्रति
 
(552)
 
प्रतान् (स्व.)
 
• समानार्थकोऽयं स्वरादिषु पठघते। 'तनु विस्तारे' इत्यस्मात्
 
प्रपूर्वकात् क्विपि ' अनुनासिकस्य - ( 6-4-15) इति दीर्घ स्वरादिपाठा-
-9
 
दब्ययत्वम् । सामर्थ्यमस्यार्थं इति केचित् । प्रयोगो मृग्यः ।
 
(553)
 
"प्रति स्थाने विनिमये निषेधे प्रतिपालने ।
निवृत्त्यङ्गीकृतिज्ञानप्रतीपोत्साह निष्क्रये ॥
यनप्रतिज्ञासंक्षेपवैपरीध्ये भृशे दृशि ।
 
264
 
सादृश्यभ्रंशदिग्योगव्याप्तिसम्भावनारुजि ॥" (उ. ग. क.)
 
स्थाने – प्रतिष्ठति । प्रतिवसति ।
 
-
 
विनिमये – प्रतिप्रदानम् । प्रतियच्छति ।
 
-
 
निषेधे– 'प्रतिषेधः, प्रत्यादेशः । प्रत्याख्यानम् ।
प्रतिपालने– प्रतीक्षते ।
 
निवृत्तौ – प्रत्यागतः । प्रत्यावृत्तः ।
 
अङ्गीकृतौ – प्रतिग्रहः । प्रतीच्छति ।
 
ज्ञाने– प्रत्ययः । प्रतिभा । प्रतिपत् । प्रतीयते ।
 
1. 'उपसगीत सुनोति सुवतिस्पतिस्तौतिस्तो भतिस्था सेनय सेध (8-3-65)
इत्यादिना बदम् । एवम् प्रतिष्टौति प्रतिषुणोति इत्यादिष्वपि पस्वं ज्ञेयम् ।
2. ''(3-3-106) इति स्त्रयधिकारविहितोऽङ् अस ।