2023-07-15 11:45:28 by ambuda-bot

This page has not been fully proofread.

पूर्वसे
 
(539)
 
पूतयवम्" (ति.)
 
क्षोभः ।
 
तूताः यत्राः यत्र काले स काल: पूतयवम् । पूतत्वं नाम वायुकृतः
यत्र काले वायुपवनेन यवा: नष्टाः स काल एवमुच्यते । तिष्ठ-
द्गुप्रभृतिषु पाठादव्ययीभावसमासेऽव्ययत्वम् । पूताः = निस्तुषीकृताः यवा
यत्राधिकरणे स देशः खलादि: 'पूतयवम्' इति व्यबहियते, इति वाच-
स्पत्यादिषु दृश्यते । तिष्ठद्गुगणे (2-1-17) पठितानां शब्दख रूपाण
कायद्योतकत्वमेव वैयाकरणरङ्गीकृतम्; देशवाचकत्वे तु बहुव्रीहिसमासे
पृतयवः इत्येव स्यात् । विस्तरस्तु गणरत्नमहोदधौ ।
 
'पूनयवम्' इति भोज इति वर्धमानः । तदानीं 'पूजो विनाशे'
(वा. 8-2-44) इति निष्ठानत्वमिति ज्ञेयम् । किन्तु सरस्वती कण्ठाभरणे
'तयन इत्येत्र दृश्यते । उभयथाऽपि नष्टय विशिष्ट कालवाचकत्वमस्य पदस्येति
ज्ञेयम ।
 
255
 
(540)
 
"पूयमानयवम् " (ति.)
 
पूयमानाः यवाः यस्मिन् काले सः पूयमानयवम् । तिष्ठद्गुगणे
पाठाद व्ययीभावसमासेऽव्ययत्वम् । निस्तुषीकृतयवविशिष्टकालोऽस्यार्थः ।
 
(541)
 
66
 
" पूर्यते" (ति. प्र.)
 
वारणार्थकोऽयम् ।
 
प्राणायामेनेत्यर्थः । तिङन्तप्रतिरूपकमिदम् ।
 
6
 
पूर्यते प्राणायामेन प्रणामेन वा' । अलं