2023-07-15 11:42:47 by ambuda-bot

This page has not been fully proofread.

तत्रोपसर्गाचतुर्धा भवन्ति
 
"" धात्वर्थं बाघते कश्चित्, कश्चित् तमनुवर्तते ।
 
तमेव विशिनष्टयन्यो ऽनर्थ कोऽन्यः प्रयुज्यते ॥'' इति वचनात् ।
 
-
 
उपसर्गवशाद्धातोरर्थान्तरे वृत्ति प्रसिद्धा; तदुक्तम्-
"प्रपूरणं दुहेरर्थ: पूरणाभाव एव सः ।
प्रस्थाने प्रसृतौ चापि विरुद्धार्थस्य दर्शनात् ॥
उपसर्गवशाद धातुरनेकार्थप्रकाशकृत् ।
 
प्रहाराहारसंहार विहारपरिहारवत् ॥" (शाकटायनीयधातुपाठे)
 
इति । एवमुपसर्गवशात् सकर्मको धातुरकर्मकः, अकर्मकश्च सकर्मको
भवतीत्यपि-
-
 
"कचिदर्थे प्रादियोगे ह्यकर्माणोऽपि धातवः ।
सकर्माणः प्रजायन्ते सतां सङ्गाज्जना इव ॥ "
इति पूर्वेषां वचनेन सिद्धम् ।
 
"घातनश्चोपसर्गाश्च निपाताश्चेति ते त्रयः ।
अनेकार्थाः स्मृताः प्राज्ञैः, पाठस्तेषां निदर्शनम् ॥"
 
इति वर्धमानेन गणरत्नमहोदधौ उपात्तं वचनमेतेषां प्रत्येकमनेकार्थकत्वं
ब्रवीति ।
 
एकमुपसर्गमारभ्य पञ्चोपसर्गपर्यन्तमपि लक्ष्येषु प्रयोगः कर्तुं शक्यत इति
1. "कश्चिद् धात्वथं बाधते । यथा- प्रवसति, प्रस्मरति । कश्चित
तमनुवर्तते, यथा - अधीते, आचष्टे । तमेव विशिनष्टयन्य:,
यथा - प्राणिति, निरीक्षते । अनर्थको यथा
निमीलति ।" इति कातन्त्र विस्तरे वर्धमानः ।
 
-
 
प्रलम्बते
 
-