2023-07-15 11:45:28 by ambuda-bot

This page has not been fully proofread.

पुरा
 
253
 
सप्तम्यर्थे -
 
6
 
आगतः ' ।
 
रमणीयम्' । अत्र अग्रभागोऽर्थः । पञ्चम्यर्थे– 'पुर आगतः ।
अमुं पुरः पश्यसि देवदारु — ' ( रघु. 2-36 ) । 'पुर
पूर्वदिग्भागादागत इत्यर्थः । एवमेव सप्तमीपञ्चमी प्रथमा विभक्तिषु दिग्देशकाल-
वाचिपदसामान्यात् प्रत्ययविधानस्थलेषु यथासम्भवमूह्यम् । दिग्देशशब्दौ न
पुनरुक्ताविति बोध्यम् ।
 
(536)
 
पुरा" (व.)
 
प्रबन्ध भविष्यदासत्तिचिरातीतेषु वर्ततेऽयम् । प्रबन्धः = अविच्छेदेन
कार्यकरणम् । यथा— 'उपाध्यायः पुरा पाठयति स्म । उपाध्यायेनाविरतम-
पाठि इत्यर्थः। भविष्यदासत्तिः = भविष्यतः कार्यस्य सन्निहितत्वम् । 'गच्छ, पुरा
देवो वर्षति' । 'अत्र, यावत्पुर् (निपातयोः–' (3-3-4) इति भविष्यत्यर्थे लट्।
पुरा दूषयति स्थलीम् (रघु-१२-३०) चिरातीते – पुराऽपि नवम् पुराणम्। अत्र
'पूर्वकालैकसर्वजरपुराण –' (2-1-49), 'पुराणप्रोक्तेषु ' ( 4-3-105)
इत्यादिषु निर्देशात्, निपातनाद्वा तुडभाव: । अन्यथा 'पुरातन: '
इत्यलेव 'सायंचिरंप्राहे प्रगेऽव्ययेभ्यः -' (4-3-23) इति ट्र्युट्युलोः
प्रत्यययोः एकस्य प्रवृत्तौ, सन्नियोगेन तुडागम: स्यात् । 'अबाधकान्यपि निपा-
तनानि ' (परिभाषा - 120) इति सिद्धान्तस्य कचिदङ्गीकारात् पुरातनम् इत्यपि
चिरातीतार्थे साधु । इयान् विशेष:– अभिधास्वाभाव्यात् 'पुराणम्' इति
इतिवृत्तविशेषे सर्गादिपञ्चलक्षणलक्षिते विद्यास्थाने रूढः, 'पुरातनम्' इति
तद्भिन्ने चिरातीतसामान्य इति । चिरे, अतीते च इति विभज्य केचिदाडुः ।