2023-07-15 11:45:28 by ambuda-bot

This page has not been fully proofread.

पुरः
 
(533)
 
पुरतः " (स्व.)
 
अग्रत इत्यस्यार्थ: । 'शु'को वृक्षस्तिष्प्रत्यग्र नीरसतरुरिह विलसति
पुरतः ' । 'पुर अग्रगमने' ( तुदादि: सक. सेट् पर.) इत्यस्मात् बाहुलकात
अतसुक् प्रत्ययः । कचित् 'पूर्वमेव' इत्यर्थोऽप्यस्य ।
 
6 इयं
 
यथा
 
च तेऽन्या पुरतो विडम्बना....' ( कुमार. 5-70) इति । अत्र 'पुरतः' इति
प्राक्काले वृत्तिः ।
 
252
 
66
 
(534)
 
' पुरस्तात् " (त.)
 
पूर्वकालः, पूर्वदेशश्च अस्यार्थः । पूर्वशब्दात्, 'दिक्शन्देभ्यः –
(5-3-27) इति अस्तातिः । 'अस्ताति च ' ( 5-3-10) इति पूर्वशब्दस्य
' पुर्' इत्यादेशः । इदं च सप्तमीपञ्चमीप्रथमाविभक्तिषु भवति । असर्व-
विभक्तितद्धितान्तत्वेनाव्ययत्वम् । "– 'पुरस्तात् अग्रप्रथमव्यतीतेषु' इति
बोपालितः ।" इति सुधाकार: । 'पुरस्ताद् रामोऽभूत् –'। 'नश्यत्
पुरस्तादनुपेक्षणीयम्' (रघु. 2-44 ) । पुरस्तादागतः । पुरस्ताद्रमणीयम् ।
 
(535)
 
"पुर: " (त.)
 
6
 
पूर्वस्मिन् देशे काले वा इत्यर्थे पूर्वशब्दात् दिग्देशकालेषु असिप्रत्ययः,
प्रकृतेः 'पुर्' इत्यादेशश्च 'पूर्वाधरावराणां' – (5-3-39) इति विधीयते ।
देशे – 'पुरस्सरा धामत्रतां यशोधनाः' (किरात. 1-43)। काले 'तत्र
प्रसादस्य पुरस्तु संपदः ॥' (शाकुन्तले 7-30)। प्रथमा विभक्त्यर्थे– 'पुरो