2023-07-15 11:45:28 by ambuda-bot

This page has not been fully proofread.

251
 
(532)
 
"पुनर् " (ख.)
 
भूयोऽर्थ- विशेषावस्यार्थी । भूयोऽर्थे – पुनरुक्तं वचः । विशेष—
'किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा (गीता 9-33 ) । द्वितीयबार-
अप्रथम-भेद-अधिकार- पक्षान्तरादयोऽप्यस्यार्थाः मेदिन्यादिषु प्रतिपादिताः ।
तत्र मेद: विशेष एव । इतरेष्वर्येषु यथासम्भवमुदाहार्यम् ।
 
पुनःपुनः इति वीप्सार्थकम् । 'पौनःपुन्यम् । पौनः पुनिकः ।
पुनरपि, पुनश्च, किंपुनः इत्यादयो निपातसमुदाया अर्थान्तरेऽपि । 'पुन-
रुत्स्यूतं बासो देयम्' (तै. ब्रा.) इत्यत्न स्वरायर्थः 'पुनश्चनसौ छन्दसि'
(बा. 1-4-59) इति गतित्वमप्यस्य ।
 
1. 'पुन: पुनः' इत्यस्य भावः पौन:पुन्यम् । ब्राह्मणादिश्वात्
(5 - 1-124) ध्यन्। 'अध्ययानां भमाले -' (बा. 6-4-144 )
इति टिलोपः । आादिवृद्धि । अवेदमवधेयम् । 'पुनः' इति देशे
कालोऽपि
 
6
 

 
विवक्षितेऽपि प्रयुज्यते- 'पुनरल विराजते'
 
इति ।
 
क्वचिद् विवक्ष्यते – 'रामाय प्रियमाख्यातुं पुनरायाम्महाकपिः '
( रामा. 1-1-76) इति ।
कालार्थे
 
ब्राह्मणाविषु ( 5-1-124) देशार्थे
प्रयुज्यमानस्यं पुन: पुनश्शब्दस्य बोप्सार्थकस्य पाठ: ।
 
तेन 'पौनःपुन्यम्' इत्यस पुनः पुनः देशे, काले बा इति
यथासम्भवमर्थः । पौन:पुग्यम्' इति अध्यबश्वेन
शब्दकल्पहुमे । तदसत् । ष्यनः प्रकृतेः पुनरिस्मस्यैव अध्ययरवेन,
 
निर्दिष्ट
 
व्यअन्तस्थ क्लीबस्वात् ।
 
(
 
2. पौनः पुनिक इति कालवा चिनः पुनःपुन इत्यस्मात् 'काळात् उन्'
(4-3-11) इति शैषिके उनि टिलोपे आदिवृद्धी च रूपम् ।
 
__________