2023-07-15 11:45:26 by ambuda-bot

This page has not been fully proofread.

परोवरम्
 
इदमत्रावधेयम् – परशब्दसमानार्थकः परश्शब्दो वर्तत इत्यत्र न
प्रमाणमस्ति । केचित्त 'परोभावः परस्याक्षे परोक्षे लिटि दृश्यताम् ।
उत्वं वाssदे: परादक्ष्णः; सिद्धं वाऽस्मान्निपातनात् ॥' (भाष्यम् 3-5-113)
इति वचनादत्र परशब्दस्यैव परोभावः, परशब्दात् परस्य अक्षणोऽकारस्य उ
वा भवतीत्येव न्याय्यम् । किञ्च, नेदमन्ययमित्यपि बहवः । अन्यथा
'परोक्षे लिट् ' ( 3-2-115 ) इति सौत्रस्य प्रयोगस्य 'साधनेषु परोक्षेषु'
(भाष्यम् 3-2-115) इत्यादीनां भाष्यादिप्रयोगाणां च गतिश्चिन्त्या स्यात् ।
अत एव शब्दकल्पद्रुमादिषु क्लीबान्तत्वेनैव निष्पादितमिदम् इति वदन्ति ।
बग्तुतस्तु 'अव्ययीभावः' (लिङ्गानुशासनसूत्रम् नपुंसकप्रकरणे) इति वचने-
नाव्ययीभावस्य क्लीबत्वेऽपि न दोष इत्यास्तां तावत् ।
 
244
 
-
 
अस्यार्थस्तु भाष्य एव स्पष्टमुद्दिष्ट: । यथा – " कथंजातीयकं पुनः
परोक्षं नाम ? केचित् तावदाहुः – 'वर्षशतवृत्तं परोक्षम्' इति । अपर
आहुः --' वर्षसहस्रवृत्तं परोक्षम्' इति । अपर आहुः – 'कटान्तरितं
परोक्षम् ' इति । अपर आहुः— ' द्व्यहवृत्तं त्र्यहवृत्तं च ' इति " ॥ इति ।
 
-
 
(507)
 
"परोवरम् " (व.)
 
-
 
इदमव्ययं स्वरादेराकृतिगणत्वेन केचिदाहुः । उच्चनीचताऽस्यार्थः ।
क्रमोऽर्थ इति तिलकः । 'परोवर परम्परपुत्रपौत्रमनुभवति' ( 5-2-10)
इत्यत्र परांश्चावरांश्चानुभवतीत्यर्थे खप्रत्ययविधिरस्ति - परोवरीणः इति
सिद्धयर्थम् । तत्र खप्रत्यय सन्नियोगेनैव परशब्दस्योत्वमित्यङ्गीकारात् वस्तुतः
पृथगव्ययत्वमस्व चिन्त्यम् । 'परोवरीयः' इत्यत्र तु छान्दसत्वादुत्वमिति
ज्ञेयम् ।