2023-07-15 11:45:26 by ambuda-bot

This page has not been fully proofread.

66
 
परोक्षम्
 
(504)
 
परुत् " (त.)
 
243
 
' पूर्वस्मिन् वत्सरे' इत्यर्थे ' सथः परुत् –' ( 5-3-22) इत्यनेन
निपातनात् साधुः । पूर्वशब्दस्य परभावः, उत्प्रत्ययश्च निपात्यते । 'परुत्
पराभूतसरोजकोशौ —' (चाटूक्तिः) ।
परुन्न: । अत्र 'चिरपरुत्-'
 
(वा. 4-3-23) इति शैषिक: प्रत्ययः ।
 
(505)
 
"परेद्यवि" (त.)
 
6.
 
'परस्मिन् अहनि' इत्यर्थे 'सद्य: परुत् परार्येषमः परेद्यवि - '
 
6
 
(5-3-22) इति निपातनात् साधुः; तदुक्तम् – 'परस्मादेद्यव्यहनि ।
(वा. 5-3-22) इति ।
 
परेद्युः इत्यतःसमानार्थकं मुग्धबोधव्याकरण । धनुशिष्टं लोके
कविभिबेहुलं प्रयुज्यते । पाणिनिमतेन नास्य निष्पत्तिरिति ज्ञेयम् ।
केचित्तु 'परेद्यवि' इति प्रयोक्तव्ये प्रमादेन परेधुरिति प्रयुञ्जत इति
वदन्ति ।
 
(506)
 
परोक्षम् " (शरतू.)
 

 
"अक्षणोः परं परोक्ष परसमानार्थक परउशब्दोऽव्ययम्।
अव्ययेऽव्ययीभावः । कथं ' प्रत्यक्षोऽर्थः, परोक्षः कालः' इत्यादेरव्ययी-
भावस्य सत्त्ववचनता ? अर्शभादित्वादतो भविष्यतीत्याह भोजः" इति
शरदादिषु वर्धमानः ।