avyayakośa /276
This page has not been fully proofread.
परि
परा गच्छतीत्यर्थे परागः = धूलि: । अन उपसर्गप्रतिरूपकत्वात्
निपातत्वेन समासोपपत्तिरिति तिलकः ।
240
(501)
"पराचैः " (व.)
'दूरदेशे' इत्ययें छान्दसोऽयम् । 'आरे बाघेषां निर्ऋति पराचैः
(ऋक् 6-74-2)।
(502)
"परारि " (व.)
'पूर्वपूर्वतरयोः परभावः, उद्वारी च संवत्सरे' (वा. 5-3-22) इति
वचनात् ' पूर्वतरस्मिन् संवत्सरे' इत्यस्मिन्नर्थे पूर्वतरशब्दस्य परभावः, आरि-
प्रत्ययश्च विधीयते । सप्तम्यन्तात् केवलात् विधीयमानत्वेनास्य 'तद्धितश्च—'
(1-1-38) इत्यव्ययत्वम् । 'परुत् पराभूतसरोजकोशौ परारि सन्दर्शित-
सन्निवेशौ । तवैषमस्ताल फलोपमानौ स्तनौ कियन्तौ परतो भवेताम् ॥" इति
चाटूक्तिः ।
(503)
"परि" (उ.ग.)
पर्युद्वाहे सपन्त विवर्ते वर्जने शुचि ।
निन्दाव्यवस्थान्यक्कारनर्मालिङ्गननिर्गमे ॥
क्रमभूषानिवसने क्षियानिश्चयवेष्टने ।
सेवा सन्न्यासापवर्तशक्तिसाङ्गत्यलाघवे ॥