avyayakośa /27
This page has not been fully proofread.
'आयातमुपगृह्य अर्थविशेषमिमे तस्यैव सृजन्तीति उपसर्गाः" ।
इति निरुक्त व्याख्यायां (13) दुर्गाचायो । 'उपेल्य नामाख्यातयोः
अर्थस्य विशेषं सृजन्ति = उत्पादयन्तीति उपसर्गाः' इति तत्रैव स्कन्दस्वामी ।
'क्रियाविशेषिताः प्रादयः उपसर्गा: (कौटिल्यार्थशास्त्रम् 2-10 ), 'प्राक्
उप सृज्यन्ते आख्यातपदस्य इत्युपसर्गः इति सायणभाष्यम् (ऋग्वेदे
1-164-45) । इदं च विवरणम्, 'कर्मविशेषक उपसर्ग : (बा. 3-1-7)
'उपसर्गाश्च पुनरेवमात्मकाः – यत्र क्वचित् क्रियावाची शब्दः प्रयुज्यते तत्र
क्रियाविशेषमाहुः' (भाष्यम् 2-1-1) 'कियाविशेषक: उपसर्गः' (भाष्यम्
1-3-1) इत्याद्यनुकूलमेव । भरतमुनिरपि ईषद्वेदेनैतदेवाह-
-
9
"प्रातिपदिकार्थयुक्त वात्वर्थमुपसृजन्ति ये स्वार्थैः 1
उपसर्गा उपदिष्टास्तस्मात् संस्कारशास्त्रेऽस्मिन् ॥"
एतदेव बृद्देवतायामयुक्तम् – (296, 97)
(नाट्यशास्त्रे 15-26) इति ।
"उपसर्गास्तु विज्ञेयाः क्रियायोगेन विंशतिः ।
त्रित्रेचयन्ति ते ह्यर्थ नामाख्यातविभक्तिषु ॥
अच्छ श्रद् अन्तर् इत्येतान् आचार्य: शाकटायनः ।
उपसर्गान् क्रियायोगात् मेने; ते तु त्रयोऽधिकाः ॥" इति ।
1. सः = ● उपसर्गः ।
उपसर्गाणां वाचकत्वम्, द्योतकत्वमिति द्वेधा मतम् । तदुक्तम्-
"स बाचको विशेषाणां सम्भवाद् द्योतकोऽपि वा '
( वाक्यपदीयम् ) इति ।