2023-07-15 11:42:12 by ambuda-bot

This page has not been fully proofread.

इति च हरिग्रन्थे स्पष्टम् ।
 
२. उपसर्गाः । उप सृज्यन्ते इत्युपसर्गाः । 'उपसर्गाः क्रियायोगे'
(1-4-59) इत्यत्र गणे पठिताः अपरादयो विंशतिसंख्याकाः । तदुक्तम्-
""प्रपरापसमन्ववनिर्दुर्व्याङ्न्यधयोऽप्यतिसूदभयश्च ।
प्रतिना सह लक्षयितव्याः पर्युपयोरपि लक्षणमंत्र ॥ "
 
(न्यास: 1-1-14) इति ।
 
भाष्ये (1-4-59,65) मरुद्दत्तो मरुत्तः, श्रद्धा, अन्तर्धिः इति
सिद्धयर्थं मरुच्छब्दस्य, 'श्रत्' इत्यस्य, 'अन्तः' इत्यस्य च उपसर्गसंज्ञोपसंख्याता ।
भोजस्तु
 
'वष्टि भागुरिरल्लोपमबाप्योरुपसर्गयोः ।' (पदमञ्जरी 6-2-37)
'हितादिषु समो म्लोप पाठं चाल श्रदन्तसे:' (द्रष्टव्या काशिका 6-1-144 )
इति वचनानुसारेण वपिस इत्येतेषामपि पृथगुपसर्गत्वमनुमय ' उपसर्गाः
पञ्चविंशतिर्भवन्ति' (शृङ्गारप्रकाशे प्रथमप्रकाश:) इत्याह ।
 
2
 
1, अत्र 'निर् दुर् इत्यनेन रेफान्तस्य' 'निस् दुस्' इति सान्तस्य
च तन्त्रेण ग्रहणम् । "तल 'निस् दुस्' इमौ सान्तौ; 'निस-
स्तपतावनासेवने' (8-3.102) इत्यादिनिर्देशात्" इति उप-
सर्गस्थायतौ' (8-1-19) इत्यत्न काशिका । 'निरः कुष: '
(7-2-46) 'सुदुरोरधिकरणे' (वा. 3.2.47) इत्याद्यनुरोधात्
रेफान्तावपि इति तत्रैव सूत्रे हरदत्तः । सकारान्तत्वं रेफा-
न्तत्वमित्युभयमपि भाष्यादिसंमतमिति शब्दकौस्तुभे स्पष्टम् ।
 
2. भागुरिमतेन अव इत्यत्र पाक्षिके अकारलोपे वगाहः वकोटः
इतिः अपि इत्यत्र अकारलोपे पिनद्धम्, पिकः इति सम्
इत्यत्र मकारलोपे सब्रह्म सततम् इत्यादीनि च सिद्धयन्ती-
व्यवधेयम ।