2023-07-15 11:45:22 by ambuda-bot

This page has not been fully proofread.

220
 
अवचारणानुनयामन्त्रणामर्षादयोऽपि
 
अस्यार्थाः । यथा-
अवधारणे- ' उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे। (रघुः.
 
1-60) I
 
मनुष
 
अनुनये – 'ननु समर्थोऽसि; त्वमेव विपणि गच्छ' ।
 
आमन्त्रणे — 'ननु मां प्रापय पत्युरन्तिकम्' (कुमार. 4-32 ) ।
 
-
 
अमर्पे - ' ननु सर्व एवं समवेक्ष्य कमपि गुणमेति पूज्यताम् । '
(माघ : 15-39 ) ।
 
विनयविनिग्रहपरकृतिसंभ्रमादयोऽपि अर्थाः कोशेषु निर्दिष्टाः यथानु-
गुणं काव्येषु द्रष्टव्याः ।
 
'मन्ये शके ध्रुव नूनं किंवा प्रायोऽनुवेनि च ।
 
ननु नाम हि जानामि उत्प्रेक्षाव्यञ्जकानि च ॥"
 
इति काव्यचन्द्रिका वचनादस्योत्प्रेक्षाव्यञ्जकत्वमपि सिद्धमेव ।
 
(456)
 
ननुच" (चा.)
 
ननु च इति निपातद्वयसमुदायोऽयं विरोधार्थकः । 'ननुच भो
छन्दोगानां सात्यमुग्रिराणायनीया अर्धमेकारमधमोकारं च अधीयते –'
(भाष्यम् एओङ्) ।