avyayakośa /248
This page has not been fully proofread.
212
द्विदण्डि
'द्विः शरं नाभिसन्धत्ते द्विः स्थापयति नाश्रितान् । द्विर्ददाति न चार्थिभ्यो
रामो दिर्नाभिभाषते ॥' (हनुमन्नाटके 1-48)।
(440)
"द्विता " (नि.)
'
'निश्चयेन, पक्षद्वयेऽपि ' इत्यर्थे छान्दसोऽयं निपातः ।
द्विता वरुणो मायि नः स्यात्' (ऋक् 7-28-4) 1 ' द्विता नक्षत्रं पप्रयच्च
भूम ॥' (ऋक् 7-86-1 )। लोके द्वेधीवरूपायें वृत्तिः ।
*
(441)
द्वितीया " (डा.)
द्वितीय शब्दात् कृञो योगे कृषौ च अभिधेये 'कृञो द्वितीयत-
तीय – (5-4-59) इत्यादिना डाच्प्रत्ययः । डाचो गतित्वेनाव्ययत्वम् ।
द्वितीयाकरोति । एकवारं कृष्टां भूमिं पुनः प्रातिलोग्यन कतीर्थः ।
(-42)
" द्विदण्डि" (अव्य.)
द्वौ दण्डौ अस्मिन् प्रहरणे इति विग्रहे बहुवी हिसमासे 'द्विदण्डयादि-
भ्यश्च' ( 5-4-128) इति समासान्ते इच्प्रत्यये, 'इच् कर्मव्यतीहारे'
(ग. सू. 2-1-17 ) इति तस्याव्ययीभावेऽव्ययत्वमस्य । द्विदण्डि प्रहरति ।
द्वौ दण्डौ गृहीत्वा प्रहरतीत्यर्थः । एवमेव आढयपदि, उभयाकर्णि,
उभयाञ्जलि, उभयादन्ति, उभयापाणि, उभयाबाहु, उभयाहस्ति,
उभाकर्णि, उभाञ्जलि, उभादन्ति, उभापाणि, उभाबाहु, उभाहस्ति,
एकपदि, द्विमुसलि, निकुच्यकर्णि, प्रोह्यपदि, सपदि, संहतपुच्छि,
इत्येतेषामपि निष्पत्तिः, अव्ययत्वं च बोध्यम् । निदर्शनार्थमिहैकमुपात्तम् ।