avyayakośa /243
This page has not been fully proofread.
207
(423)
"दिष्टया" (चा.)
आनन्दोऽस्यार्थः । ' दिष्ट्या वर्धामहे । '—सभाजनदर्शनप्राति
लोम्येषु' इति केचित् । 'दिष्टयाऽव्ययं मङ्गले च हर्षे च परिकीर्तितम् ॥
इति वाङ्मयार्णवः । भाग्यार्थकस्य दिष्टिशब्दस्य तृतीयान्तमिदमिति
।
केचित् । 'अन्योऽन्यगतसौहार्दा दिष्टया दिष्टथेति चाब्रुवन् ' (भारत.
आनु. 129 ) । ' दिष्टयाऽम्ब ते कुक्षिगतः परः पुमान्' (भागवते
10-2-41) I
(424)
"दुर्" (उ.ग.)
'दुरीषदर्थे निन्दायां कृच्छ्राऽनीप्सितवैकृते । " ( क्षीरस्वामी ) । ईषदर्थे -
दुर्बलः । निन्दायाम्–दुश्चर्म । कृच्छ्रे–दुष्पानः, दुर्गतिः । अनीप्सिते-
दुर्भगः, दुष्कृतम् । वैकृते-–दुर्मुखः । असम्पत्ति-निषेधावप्यर्थी। असम्पत्ति-
र्यथा-- भिक्षाणां अभाषः दुर्भिक्षम् । निषेधे– दुर्मानी। मानरहित इत्यर्थः
सङ्कटदुःखाइयोऽपि प्रकरणानुरोधेन अस्यार्थाः । क्रियायोगेऽस्योपसर्गसंज्ञा ।
अन्यत्र गतिसंज्ञा । 'दुर्ग: । दुःखसाध्ये - दुष्करम् । दुःखेनापि कर्तुं न
शक्यते इत्यर्थः ।
-
1. 'सुदुरोरधिकरणे' (वा. 3-2-48) इति डः । 'दुस् दुर्' इत्येती
द्वावप्युपसर्गों समानार्थको षस्वादिषु प्रवृत्ति निवृत्यर्थमेव रेफान्स-
स्वेन सकारान्तत्वेन च पाठः ।
VAL