2023-07-15 11:45:20 by ambuda-bot

This page has not been fully proofread.

206
 
(419)
 
दद्धि" (ख.)
 
याच्या यामिदमव्ययमिति वाचस्पत्यम्। 'दग्धि' इति केचित्
 
पठन्ति । उदाहरणं मृग्यम् ।
 
66
 
(420)
 
" दमे " (चा.)
 
गृहार्थकमिदमव्ययं वेदेषु प्रसिद्धम् । उदाहरणं मृग्यम् ।
 
(421)
 
'दरम्" (नि.)
 
अल्पार्थकोऽयं निपातः । तदुक्तम् – 'अल्पार्थे त्वव्ययं दरम्'
(वैजयन्ती) इति । वाङ्मयार्णवादिषु 'दर' इत्येवास्य स्वरूपमुपात्तम्-
'मनागर्थे दराव्ययम्' इति । 'अहित विशिखैरहन् मुकुन्दोऽदरवेघेऽपि
दरव्यथाविमुक्त: ' (यादवाभ्युदये 15-120 ) ।
 
66
 
(422)
 
'दिवा" (स्व.)
 
दिनार्थकमिदम् । दिवाकरः।
 
पक्षश्च – (भारत आनु 242-31 ) ।
 
दिवातनः । 'दिवा
 
दिवा च शुक्ल -
 
1. दिवा करोतीत्यर्थे दिवाकरः सूर्यः । 'दिवाविभा - ' ( 3-2-21 )
इति करोतेष्टप्रत्ययः । 'दिवा' इति अधिकरणशक्तिप्रधानमव्ययम् ।
कर्मोपपदाधिकारेऽस्य 'सुपि' इत्यनेम सम्बन्धोऽवेति ज्ञेयम् ।