2023-07-15 11:45:20 by ambuda-bot

This page has not been fully proofread.

दुण्डाइण्डि
 
(417)
 
205
 
दक्षिणेन" (त.)
 
दक्षिणशब्दादस्तातिप्रत्ययार्थे 'एनबन्यतरस्यामदूरे ऽपञ्चम्या:' (5-3-35)
इति एनप्प्रत्ययः । सप्तमीप्रथमा त्रिभक्तिभ्यामेत्राय प्रत्ययः । 'प्रागदर्शनात्,
प्रत्यक् कालकत्रनात्, 'दक्षिणेन हिमवन्तम्, उत्तरेण पारियालम्' (भाष्यम्
6-3-109) I ' दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते' (शाकुन्तलम् १)
'दण्डकान् दक्षिणेनाहं सरितोऽद्रीन् वनानि च ।' (भट्टिः 8-108) ।
 
(418)
 
" दण्डादण्डि" (अ.)
 
दण्डैश्च दण्डैश्च प्रहृत्य प्रवृत्तमिदं युद्धमित्यर्थे ' तत्र तेनेद मिति सरूपे '
(2-2-27) इति कर्मव्यतीहार बहुव्रीहौ — इच् कर्मव्यतीहारे' (5-4-127)
इति समासान्त इच्प्रत्ययः । 'इच्' (ग. सू. 2-1-17 ) इति तिष्ठद्गगणे
पाठात् अव्ययीभावत्वम् । 'अव्ययीभावश्च' (1-1-41) इत्यव्ययसंज्ञा ।
पृषोदरादित्वात् पूर्वपददीर्घः । एवं सूनासूनि मुसलामुसलि बाहवा (बाहू)
बाहवि लाटालाटि पुष्पापुष्पि केशाकेशि कचाकचि इत्यादयो
 
भाव्याः ।
 
1.
 
'एनपा द्वितीया' (2-3-31) इति द्वितीया । ' दक्षिणेन सरस्वत्या
दृषद्वध्युसरेण च ( भारत वन. 83-4) इत्यादिषु द्वितीयाभाव
आश्वात् ।
 
1. लाटो दण्डः । इदमेव देशभाषासु 'लडाकडि ' इत्युच्यते ।