2023-07-15 11:42:11 by ambuda-bot

This page has not been fully proofread.

प्रकृतिप्रत्ययानुगता आवश्यकी च-तत्र परं किश्चिदव विवृतमिति बोध्यम् ।
अयमेव पन्थाश्वादिष्वपि ।
 
(२) निपाताः ।
 
निपात्यन्ते – यथाकथञ्चित् साधु क्रियन्ते इति निपाताः । कर्मणि
चञ। 'अथ निपाताः । उच्चावचेष्वर्येषु निपतन्ति । अपि उपमार्थे । अपि
कर्मोपसंग्रहार्थे । अपि पदपूरण: । ' (निरुक्तम् 1.4) इति यास्कः । ' निय-
मेन पातयन्ति स्वार्थमन्यस्मिन् ' इति लघुशब्देन्दुशेखरव्याख्यायां चिद-
स्थिमालायां विवृतम् । ऋकप्रातिशाख्ये (12-26 ) 5पि -
 
निपाताना मर्थवशान्निपातनात् अनर्थकानामितरे च सार्थकाः ।
नेयन्त इत्यस्ति संख्येह त्राङ्मये मिताक्षरे चाप्यमिताक्षरेऽपि च ॥" इति
निपातशब्दनिर्वचनम् तेषां स्वरूपसंख्यादिकं च सग्रहेण प्रतिपादितम् ।
भरतमुनिरपि स्वकीये नाट्यशास्त्रे (VX)
 
66
 
"
 
" प्रातिपदिकार्थयोगात् धातुच्छन्दोनिरुक्तयुक्त्या च ।
यस्मन्त्रिपतन्ति पदे तस्मात् प्रोक्ता निपातास्तु ॥ "
 
इति भङ्गयन्तरेणतदेव प्रकाशयामास । " निश्चित: पात एषामिति
निपात: । नामाख्यातप्रयोगेषु अर्थादभिन्नाः निपतन्ति इति निपाताः ।"
इति दुर्गसिंहः (कातन्त्रप्रकाशे) ।
 
निपाता बहुविधाः । तथाहि - १. चादयः, २. उपसर्गा, ३. गतयः,
3. कर्मप्रवचनीयाः इति सामान्यतचतुर्था विभक्तुं शक्यन्ते । तेषु-
1. मिताक्षरे = लौकिके वाङ्मये । अमिताक्षरे ='अनन्ता ये
वेदाः' इत्युक्ते वैदिके वाङ्मये-इत्यर्थः ।
धातुयुक्त्या, छन्दोयुक्त्या, निरुक्तयुक्त्या च, इत्यर्थः ।
 
.2.
 
1 YEA