avyayakośa /235
This page has not been fully proofread.
वोसुन्
(398)
"ते" (चा.)
'त्वया' इत्यर्थे निपातोऽयम् ।
विभक्तिप्रतिरूपकमिदमव्ययम् । 'ते
6
इति स्यात् त्वयेत्यर्थे—' इति विकाण्डशेषः । ते मे शब्दौ निपातेषु '
इति वामनः (काव्यालङ्कारसूत्रे 5-2-10 ) । 'गुरुर्भवन् अपि विशेषदृष्टिस्ते '
(अनर्धराघवे 1-16 ) । "'ते' इति निपात: 'त्वयि' इत्यर्थेऽपि " इति
लक्ष्मणसूरिः (अनर्धराघवटीकायाम् 1-16 ) । तथा च प्रयुज्यते—' श्रुतं
ते राजशार्दूल !' इति । अव त्वयीत्यर्थः ।
'ते' इति हेत्वर्थकमपि प्राचीनग्रन्थेषु पठयते । यथा महाभाष्ये --
(1-1-1) 'ते मन्यामह- - यया प्रत्याय्यन्ते सा संज्ञा....।' इति । भाष्य
एवैवमसकृत् स्थलान्तरेष्वपि प्रयुज्यत इत्यवधेयम् ।
199
(399)
"तेन" (चा.)
हेतुरस्यार्थः । तृतीयाविभक्तिप्रतिपकमिदमव्ययम् । 'सप्रश्रयं मद-
लेखां तेन वलितप्रमुखो भूत्वा ....' (कादम्बरी) ।
(400)
"तोसुन " (कृ)
एतदन्तमव्ययमंज्ञकं ज्ञेयम् । तुमुनर्थकश्छन्दस्येवायं प्रत्ययः । 'ईश्वरो-
ऽभिचरितोः '। 'क्वातोसुन्कसुन: (1-1-40) इत्यव्ययसंज्ञा ।
;