2023-07-15 11:45:16 by ambuda-bot

This page has not been fully proofread.

(375)
 
तदानीम् " (त.)
 
' तस्मिन् काले' इत्यर्थे तच्छन्दात् 'तदो दा च' (5-3-19)
 
इत्यत्व चकारात् 'दानीम् ' प्रत्ययः । त्यदाद्यत्त्रम्, पररूपम्। 'नासदा-
सौन्नो सद् आसीत तदानीम् ' (ऋ. 10-129-1 )।
 
44
 
6
 
(376)
 
तपः " (स्त्र.)
 
लोकान्तरवाचकमिदमब्ययमिति निपाताव्ययोपसर्गवृत्तिः । 'ओं
तपः । वस्तुतः सुबन्तत्वेनैव रूपमस्य सिद्धमिति अव्ययत्वे नातीव प्रयोजन
 
पश्याम: ।
 
66
 
189
 
(377)
 
""
 
तरसा
 
शैघ्यार्थकमिदम् । 'तरसोदिता सजलेषु' । तिलकादिमिरिदमव्य-
यत्वेन परिगणितम् । 'उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलि-
ताम् । (शिशुपालवधे 9-72) इति श्लोकव्याख्यादिषु नपुंसकलिङ्गत्वेनेदं
शब्दस्वरूपं व्याख्यातम् । विस्तरस्त्वन्यत्व ।
 
(378)
 
तर्हि " (त.)
 
तस्मिन् काले' इत्यये अनद्यतने काले 'अनद्यतने हिल अन्यतर-