2023-07-15 11:45:16 by ambuda-bot

This page has not been fully proofread.

187
 
तथा
 
(373)
 
" तथा " (त.)
 
'तेन प्रकारेण' इत्यर्थे तच्छन्दात् 'प्रकारवचने थाल' ( 5-3-23)
इति थाळ्प्रत्यये त्यदाद्यत्वे पररूपे च तथा इति सम्पद्यते । अस्यैव चादिषु
समुच्चयाङ्गीकार निदर्शनसादृश्येषु पाठः । यथा - समुच्चये –'हारितो-
ऽयमहं तथा । अङ्गीकारे– 'स तथेति प्रतिज्ञाय - ( कुमार संभवे
6-3)। निदर्शने – 'तथा हि ते शीलमुदारदर्शने' (कुमार. 5-36)।
सादृश्ये – 'इदमपि तथा ।
 
.9
 
-
 
निश्चयसत्यादिष्वपि दृश्यते ।
 
निश्चये 'तथा हि सर्वे तस्यासन्
 
परार्थैकफला गुणाः ॥' (रघु. 1-29 ) । सत्ये – 'तत् तथा न तदन्यथा',
'तथ्यम् । तथाकारमहं मोक्ष्ये, किं तेन ?' यथातथम् । आयथात-
62
 
ध्यम् । अयाथातथ्यम् ।
 
तथाच इति उक्तार्थदृढीकरणे, तथापि इति आक्षिप्तस्य समाधाने,
तथैव इति अङ्गीकारायर्थेषु, तथाहि इति निदर्शनाथर्येषु च निपातान्तरसमु-
दितोऽप्ययं प्रकरणादिवशादर्थान्तरे वर्तते इति ज्ञेयम् । यथाशब्दप्रतिनिर्दे-
1. 'तत्र साधुः' (4-4-98) इति यत्प्रत्ययः ।
 
2. 'यथातथबोरसूपाप्रतिवचने' (3-4-28 ) इति असूथवा प्रतिवचने
कृमो णमुल ।
 
3. अस 'यथाऽसादृश्ये ' (2-1-7) इत्यव्ययीभाव समासे, समासामो
आयथातथ्यम्' इत्यस ब्राह्मणादिस्वात् (5-1-24) व्यभि
 
(