2023-07-15 11:42:07 by ambuda-bot

This page has not been fully proofread.

वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ " ( गोपथ ब्राह्मणे 1-1-26 )
इति ब्रह्मविषयिणी श्रुतिः नैरुक्तप्रक्रियया व्याकरणशास्त्रीयाव्यपरा
भगवत्पतञ्जलिमुनिभिः योजिता । तद्यथा-
----
 
"न ब्येतीति अव्ययम् इति । क पुनर्न व्येति ? स्त्रीपुंनपुंसकानि, सत्त्व-
गुणाः, एकत्व द्वित्वबहुत्वानि च । एतानर्थान् केचित् वियन्ति केचिन्न वियन्ति,
तदव्ययम् ॥ " (भाष्यम् 1-1-38) इति ।
ऋक्प्रातिशाख्ये (12-22 )
 
"नामाख्यातमुपसर्गोों निपातः चत्वार्याहुः पदजातानि शाब्दाः ।"
इति वैयाकरणैकदेशिरीत्या पदप्रविभागमुक्त्वा,
 
"तन्नाम येनाभिदधाति सत्त्वम्, तद् आख्यातं येन भावं स धातुः ।
उपसर्गा. विंशतिरर्थवाचकाः सहेतराभ्यामितरे निपाताः ॥
 
क्रियावाचकमाख्यातम् उपसर्गो विशेषकृत् ।
सत्त्वाभिधायकं नाम निपाताः पादपूरणाः ॥ (12-23, 24 ) "
इति तेषां संग्रहेण लक्षणान्ययुक्तानि । अत्र उपसर्गनिपातौ अव्ययविशेषा-
वित्यवधेयम् ।
 
"दृष्टव्यय तु भवति- -" (निरुक्तम् 1-8) इति यास्कवचनमप्यत्रानु-
सन्वेयम् । ततश्च "प्रायेण अलिङ्गसंख्याशक्तीनि अव्ययानि" (शृङ्गारप्रकाशे
प्रथमः प्रकाशः) इति श्रीभोजोक्तमेवैतेषामनुगत लक्षणमिति बोध्यम् ।
॥ अव्ययविभागः ॥
 
. तत्र अव्ययानि बहुरूपाणि । (१) खरादीनि, (२) निपाताः,
(३) असर्वविभक्तितद्धितान्तानि, (४) कृदव्ययानि, (५) अव्ययीभावसमा-
सान्तानि इति पञ्चधा विभक्तुमर्हाणि । अयं विभागो भाष्यद्यनुसारेण
अस्माभिः क्रियते । केचिदन्यथाऽपि विभजन्ते । अथ क्रमेणैतेषां विवरणं
क्रियते ।
 
14