2023-07-15 11:45:15 by ambuda-bot

This page has not been fully proofread.

178
 
हिजोडम्
 
(354)
 
जनः (चा.)
 
"?
 
लोकान्तरवाचीद मव्ययमिति क्षीरस्वामी। 'ओं जनः' इति तिलकेना-
प्युदाहृतम् । परं तु 'तपस्' इत्यादिवत् नपुंसकलिङ्गत्वमेवास्य लोकबाच-
कस्बेऽपि न्याय्य मिति प्रतिभाति ।
 
(355)
 
" जम् " (नि.)
 
पत्नीवाचकमिदमव्ययमिति भरतोदाहृतनामप्रपञ्चे जम्पतीशब्द-
विवरणावसरे प्रतिपादितमिति शब्दकल्पद्रुमः। 'पस्यां जं दमलङ्गवे' इति
 
6 जायाशब्दस्य
 
नामप्रपञ्चवचनमपि अमरसुधायामुपात्तम् । वस्तुतस्तु-
जम्भावो दम्भावश्च निपात्यते (काशिका 2-2-31) इति अभियुक्तवचनात
निपातनेनैवाल निर्वाह इति ज्ञेयम् ।
 
(356)
 
"जहिजोडम्" (अव्य.)
 
त्यागजोडार्थक्रियायामिदमव्ययम् । 'जहि, जोडम्' इति यत्र क्रिया-

 
यामुष्यते तत्रैवं भवति । एवं 'जहिस्तम्भम्' इत्यपि ज्ञेयम् वाचस्प -
त्यादिषु अव्ययत्वेन परिगणितावेतौ । काशिकादिषु प्राचीन ग्रन्थेषु 'जहि-
जोड: ' ' उज्जहिजोड: ' 'जहिस्तम्ब: ' 'उज्जहिस्तम्बः' इत्यादीनां मयूरव्यं.
सकादिगणपटितात् 'जहि कर्मणा बदुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति