2023-07-15 11:45:14 by ambuda-bot

This page has not been fully proofread.

चिरम्
 
175
 
इति सूत्रवार्तिकभाष्यप्रयोगात् । न चात्रापि ' चिरम्' इत्यस्यैव समास
इति भ्रमितव्यम्; समासेऽपि 'अहंयुः, शुभंयुः—' इत्यादिष्विव मकारश्रत्र-
णापत्तेः ।
ततश्च कालविप्रकर्षार्थकश्चिरमित्यव्ययसमानार्थकः सुबन्तोऽप्य-
स्तीति सिद्धम् । अत एव ध्यायन्ती वा चिरविरहितान् एकशय्याविहारान् ?
 
:
 
( हंससन्देशे 2 - 12 ) इत्यादयः प्रयोगा: प्राज्ञैः निव्यूढा इत्यास्तां तावत् ।
विस्तरस्तु लक्ष्मीसहस्ररत्नप्रकाशिकायां द्रष्टव्यः ।
 
परे तु आपिशलव्याकरणे चिरशब्दो नपुंसकलिङ्ग उद्दिष्ट: । पाणि-
नीयेऽपि सर्वासु च विभक्तिषु पठयते । ततश्च द्विवचनादिषु लुप्तप्रयोगस्य
पश्चात् खरादिषु पाठेनव्ययत्वमस्य कल्पितम् । अत एवायापि समानार्थकाः
सार्वविभक्तिकाः समानप्रकृतिकाः चिरम्, चिरेण, चिराय, चिरात्,
चिरस्य, चिरे इत्याकारा: प्रयोगा: ( असत्त्ववृत्तयो) लभ्यन्ते । एतेन चिर-
रात्राय इत्यपि व्याख्यातम्
- इति वदन्ति । अभिधानकोशेषु तु सर्वत्र
अव्ययत्वेनैतेषां विवरणं कृतम् – इत्यलमतिविस्तरेण ।
 
-
 
6
 
'हविर्यत् चिररात्राय यच्चानन्त्याय कल्पते ।' (मनु. 3-266 ) 1,
"चिरेण मित्रव्यसनी सुदमो दमघोषजः ॥' (शिशु. 2.60), 'चिराय
 
1.
 
वाचस्पत्ये चिरशब्दादेनप्प्रत्ययेनेदं रूपं प्रसाध्य, 'चिरेण मिशं
बध्नीयात् चिरेण च कृतं त्यजेत् । चिरेण कृतं मिल चिरं
धारणमर्हति ॥' (भारते. था. 267- भ.) इति इकोक उदाहृतः ।
'एनपा द्वितीया' (2-3-31) इति भत्र स्थले द्वितीयेति तस्याशयः ।
 
' एनबन्यतरस्याम् अदूरे पञ्चम्या: (5-3-35 ) इति एनब्विधाबके
 
9