2023-07-15 11:45:14 by ambuda-bot

This page has not been fully proofread.

174
 
चिरम्
 
6
 
9
 
'यच्चिद्धि ते विशो यथा प्र देव घरुण व्रतम् ।
 
इत्यत्र शोभार्थकोऽपि प्रयुक्तः ।
 
(ऋक्, 1-25-1)
 
(348)
 
"चित्ता" (सा.)
 
मानसव्यापाररूपायें साक्षात्प्रभृतिषु पाठान्तरत्वेन
 
पठितोऽयम् ।
 
अचित्ता चित्ता कृत्वा चित्ताकृत्य ।
 
'साक्षात् प्रभृतिषु च्व्यर्थवचनम् '
 
(वा. 1-4-74) इति वचनात् च्व्यर्थकत्वम् । कृञो योगे गतिसंज्ञायाम् ।
समासे ल्यपि रूपमेषम् ।
 
(349)
 
" चिन्ता " (सा.)
 
पूर्ववदस्यापि मानसव्यापारोऽर्थः । 'चिन्ताकृद् आश्रितहितोऽरि-
विकम्पनेकृत् –' इति गणरत्नमहोदधिः ।
 
(350)
 
"चिरम्" (स्व.)
 
कालबिप्रकर्षोऽस्यार्थः । 'किञ्चिन्नम्रमुखी प्रियेण हसता बाला चिरं
चुम्बिता (अमरुके 77 )।
 
"
 
-
 
अत्रेदमवधेयम्
– चिरशब्दोऽनव्ययः सुबन्तोऽप्यस्ति । तद् यथा -
'तन्त्रादचिरापहृते' (5-2-70), 'चिरपरुत्परारिभ्यः नो वक्तव्यः
(वा. 4-3-23) ' अथ सायचिरयोः किं निपात्यते ? (भाष्यम् 4-3-23)