2023-07-15 11:42:07 by ambuda-bot

This page has not been fully proofread.

श्रीरस्तु ।
श्रीगुरुभ्यो नमः ।
 
॥ उपोद्धातः ॥
 
अयमिदानीं विदुत्राम्, विशेषतरच वैयाकरणानां निकाये अव्यय कोश-
नामको ग्रन्थ उपहारतया समर्प्यतेऽस्माभिः । संस्कृतवाङ्मये कोशकाराः
सर्वेऽपि प्रायः स्वकृतिषु अव्ययानामपि यथावसरं संक्षेपविस्तरप्रक्रियया यद्यपि
निवेचनादिक कुर्वन्ति; तथापि तेषु विशकलिततया अव्ययानां तत्न तत्त्रोपलम्भात्,
तत्रापि निपातस्य उपसर्गस्य गतेरित्याद्याकारेण शास्त्रीयका र्यविशेषज्ञापन-
पुरस्सरं अकारादिक्रमेणानुपलम्भाव, विशेषस्थलेषु आक्षेपसमाधानरूपविमर्शाय-
भावात, रूपनिष्पत्तिप्रदर्शनाभावाच्च कृतिरियमस्मदीया अतीव उपयोगिनीति
मन्यामहे । यद्यपि निपाताव्ययोपसर्गवृत्तिः भट्टक्षीरस्वा म्युत्प्रेक्षिता वैयाकर-
गतिलकेन तिलकेन स्वव्याख्यया तिलकिता विलसति, तथा गणरत्नमहो-
दधिरपि वर्धमानोपाध्याय सर्वस्वं अव्ययविषयेऽपि यावदपेक्षितपूरकं उदाहरण-
प्रदर्शनोज्ज्वलं वर्तते, एवमन्येऽपि ग्रन्थाः त्रिचतुरा विरला म्युः; तथापि
नेष्वपि चादीनां स्वरादीनां च मिश्रितत्वात अतिसंक्षिप्तत्वात् च युक्ताऽस्मदीया
प्रवृत्तिरिति निश्चिनुमः ।
 
अव्ययस्वरूपम्
 
• सदृश त्रिपुलिङ्गेषु सर्वासु च विभक्तिषु ।
 
1.
 
अस्याः श्रुतेरर्थः शब्दकौस्तुभे (1-1-37) विस्तरेण
सदृशम् = एकप्रकारं यन्न व्येति तदव्ययमिति योजना ।
 
द्रष्टव्यः ।