2023-07-15 11:45:14 by ambuda-bot

This page has not been fully proofread.

चित्
 
(345)
 
" चाटु" (चा.)
 
प्रियवाक्ये वृत्तिरस्य । प्रौढमनोरमादिषु चाटेराकृतिगणत्व प्रदर्शनार्थं
 
पठितोऽयम् । 'न शब्दश्लोककलहगाधावरचाटु --- ' ( 3-2-23) इति
 
सूत्रस्वारस्ये तु अस्य चादित्वं चिन्त्यप्रयोजनम् ।
 
(346)
 
" चि" (नि.)
 
वेदेषु श्रूयतेऽयं निपातः। प्रयोगो मृभ्यः ।
 
(347)
 
"चित्" (चा.)
 
असाकल्याप्यर्थोपमानासम्मतयोऽस्यार्थाः । असाकल्ये—'आश्चर्य
श्चिद् इदं ब्रूयात्
–' (निरुक्ते 14 ) । अध्यर्थे -- किञ्चिन्न प्रयच्छति ।
किशिदपि न यच्छतीत्यर्थः । उपमाने- अग्निचिद् भाति । अग्निरिव
भातीत्यर्थः । असम्मतौ—'कुल्मापांश्चिदाहर बुमांश्चिदाहर'। कुल्मापं बुमं
वाऽऽहर ; न मे तत्रास्था,
इत्यर्थः ।
 
असाकल्यार्थे प्रायः किंवृत्तात् परः प्रयुज्यते । यथा-कश्चित.
कदाचित् कुत्रचित् कर्हिचित्, कचित्
 
काचित् किश्चित्
 
3
 
,
 
173
 
,
 
कुतश्चित् इत्यादि । व्याकरणान्तरेषु प्रत्ययत्वेनायं विहितः ।
 
>