2023-07-15 11:45:13 by ambuda-bot

This page has not been fully proofread.

172
 
रमम्
 
इद् अनृतस्य प्रयोता' (ऋक्. 7-86-6)। अत्र 'स्वप्नश्चन = स्वप्नोऽपि
इति भाष्यात् समुच्चयार्थकत्वं ज्ञेयम् । विध्यर्थकत्वम् –' नहि त्वदारे
निमिपश्चनेशे ॥' (ऋक् 2-28-6) इत्यत्र बोध्यम् ।
 
वेदेषु 'च+न' इति पदद्वयसमुदायः ऐकपद्य तु अध्यापक-
सम्प्रदायाधीनम् अत एव चकारार्थस्य समुच्चयस्य, नकारार्थस्य निषेधस्य च
कुत्रचित् प्रतीतिरिति वृद्धाः ।
 
;
 
(343)
 
" चनः" (ख.)
 
,
 
अन्नश्रद्धादिवाचकमिदम् । अन्ने–'चनो दघिष्व पचतोत
सोमम् ' (ऋक्. 10-116-8) । श्रद्धायां प्रयोगो मृग्यः ।
 
'
 
(344)
 
चरमम् " (स्व.)
 
अवर अनप्रार्थयोरेतदव्ययत्वेन स्वरादिविवरणे तिलकादिभिः पठि-
-
 
-
 
तमिदम् । अवरे -- 'पूर्वमयश: स्फुरति चरमम् अधरः' । अनग्रे – चरमं
रमणीयम् । क्रियाविशेषणत्वेन वाचस्पत्यादिषु विशेष्यं निघ्नत्व
चरमशब्दस्याङ्गीकृतम्। सर्वादिपाठसामर्थ्यात् तदेव युक्तं प्रतीमः ।
 
9
 
1.
 
अन वाचस्पत्यादिषु नपुंसकलिङ्गोऽयं चनश्शब्दः पठितः । वैयाकरण-
ग्रन्थेषु तु सर्वत्र स्वरादिषु (अव्ययस्वेन) पठ्यते ।