2023-07-15 11:45:13 by ambuda-bot

This page has not been fully proofread.

गुलगुजा
 
(330)
 
167
 
'' स्वोः
 
(चा.)
 
कुत्सायां वर्ततेऽयम् । 'खो' कटं करोति' । कटकरणं यथाबत्
शाणाऽपि सम्यद् न करोतीत्यर्थः ।
 
(331)
 
"गच्छति " (ति. प्र.)
 
शक्केऽर्ये तिङन्तप्रतिरूपकमिदम् । 'नेतुं नाभिरितो न याति विदिर्श
कि भक्त !....गच्छति' । (ग. र. म. उपात्तः श्लोकः) ।
 
(332)
 
"गुम्" (नि.)
 
मन्त्रस्तोभवचनोऽयम् । प्रयोगो मन्त्रशास्त्रेषु मृग्यः ।
 
(333)
 
गुलुगुधा" (ग.)
 
पौडार्थकोऽयं ऊर्यादिषु ( 1-4-61) पठघते। 'क्रीडायाम्' इति
केचित् । 'सहायें' इति वाचस्पत्यम् । ऊर्यादीनां कृभ्वस्तियोग एम
गतिसंज्ञाविधानम् । यद्यपि वृत्यादिषु सर्वत्र कृञो योग एवोदाहृतः । तथापि
उपलक्षणमेतत् अस-भूधात्वोरपीति ज्ञेयम् । गुलुगुधाकृत्य = पीडयित्वेत्यर्थः ।
'गुलगुधा' इत्यपि पठन्ति ।