2023-07-15 11:45:13 by ambuda-bot

This page has not been fully proofread.

166
 
खुम्
 
एवं यस्मिन् काले खले यबाः स काल: खलेयबम् । अत्रापि
तिष्ठद्गुगणपाठात् सप्तम्या अलुक्, अव्ययीभावसमासश्च । अव्ययीभाव-
समासादन्यत्र खलबुसः खलयबः इति रूपे । खलबुसः = युद्धे यः पलायति
स उच्यते । खलयवः =साम्प्रहारिकः ।
 
(328)
 
खाट्" (ग.)
 
'अनुकरणं चानितिपरम् (1-4-62) इति शब्दस्यास्य क्रियायोगे
गतिसंज्ञा । 'खाट्कृत्य। 'चुम्बनसक्तः सोऽस्याः च्युतमूलं दशनमात्मनो
पदने । जिह्वामूलस्पृष्टं खाडिति कृत्वा निरष्ठीवत् ॥" इत्यस तु इतिपर-
कत्वात् न गतिसंज्ञा ।
 
(329)
 
"खुम्" (ग.)
 
मन्त्रस्तोभवचने गतिसंज्ञकोऽयं मन्त्रशास्त्रेषु मालामन्त्रेषु कूटमन्त्रेषु
प्रसिद्धः । चादिषु पाठ उन्नेयः ।
 
1. वृक्षादीनां पढनावसरे 'खाट्' इति यः शब्द उपजायने, तस्यानु-
करणमन्त्र । तेन गतिसंज्ञायाम्, 'कुगति –' (2-2-18) इति
समासे ल्यप् ।
 
2. कस्यचित् कवेरयं श्लोकः भाष्यादिषु (1-4-62) उदाहृत इति
शेषम् ।