2023-07-15 11:45:12 by ambuda-bot

This page has not been fully proofread.

164
 
(323)
 
क्षमा" (स्व.)
 
शान्तावस्य वृत्ति: । 'क्षमाकरोतु भवान्' । 'क्षितिक्षान्त्योः क्षमा,

युक्त क्षमं, शक्ते हिते त्रिषु' इत्यत्र 'क्षमम्' इत्यपि 'साम्प्रतम्' इत्यर्थेऽत्र्य-
यमिति केचित व्याकुर्वन्ति । 'पतिगृहे तब दास्यमपि क्षमम् । (शाकुन्तले
5-27 ) इत्युदाहरन्ति च । 'यदिदं ते क्षमं राजन् गमिष्यामि यथागतम्' इति
(वा. रामायणे १- २९ ३) इति दशरथं प्रति विश्वामित्रवाक्यम् ।
 
(324)
 
'क्षिप्रम् " (स्व.)
 
शीघ्रार्थोऽयम् । 'क्षिप्रं ततोऽध्वन्यतुरङ्गयायी' (भट्टि: 2-44 ) ।
क्रियाविशेषणमप्येतत् । 'क्षिप प्रेरणे' इत्यस्मात् 'स्फायितश्चि–' (उणादिसू.)
इत्यादिना रक्प्रत्ययः । विशेष्यनिघ्नत्वमस्य केचिदिच्छन्ति । 'असत्त्वेऽपि
च शीघ्रार्थे –' इति वाङ्मयार्णवादिप्रामाण्यात् अव्ययत्वं न्याय्यम् ।
 
(325)
"खमुञ् " (कृ.)
 
एतदन्तमव्ययम् ।
 
चोरङ्का रमाक्रोशति ।
 
अन 'कर्मण्याक्रोशे
कृञ: खमुञ्' (3-4-25) इति खमुञ् । चोरोऽसि, दस्युरसि– इत्याक्रो-
शतीत्यर्थ: । मान्तकृत्त्वादव्ययत्वम् । खित्त्वान्मुमागमः ।
 
(326)
 
"खलु" (चा.)
 
निषेध - वाक्यालङ्कार जिल्लासा-अनुनय-नियम- निश्चय हेतु- विषादा-
दयोऽस्यार्थाः । निषेधे --- 'खलु कृत्वा । 'निर्धारितेऽर्थे लेखेन खलुक्वा
खलु वाचिकम् ।' (माघः - 2.70 ) ।
 
1.
 
'अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा' (3-4-18) इति अस
 
क्त्वाप्रत्ययः ।