2023-07-15 11:45:10 by ambuda-bot

This page has not been fully proofread.

154
 
किल
 
किञ्चन इति अल्प-असाकल्याद्यर्थेषु वर्तते ।
 
ईपद साकल्या किचकरादयः किञ्चिदित्यस्यार्थाः ।
 
बहूनां मध्ये एकस्यातिशये गम्ये कुत्सितार्थे किन्तमाम् इति ।
कुत्साविशिष्टे द्वयोरेकस्य परि किन्तराम इति ।
 
किन्तु इत्यस्य प्रागुक्तविरुद्धार्थ- पूर्व वाक्यसङ्कोचज्ञापन किम्पुनरि-
त्यर्थेषु वृत्तिः ।
 
प्रश्न वितर्क सादृश्य स्थान करणादयोऽर्थाः किन्नु इत्यस्य ।
 
-
 
साकल्यम किमपीत्यस्यार्थः ।
 
-
 
प्रश्न-निषेध-वितर्क-निन्दादयः किमु इत्यस्यार्थाः ।
 
प्रश्न-विकल्प-वितर्क-अतिशयादयः किमुतेत्यस्यार्थाः । किम्पुनरि-
त्यर्थेऽपि दृश्यते । यथा- 'प्राकृतोऽपि पुमान् नावमन्तव्यः, किमुत राजा ।
'गन्तुमुत्सहते नेह कश्चित् किमुत वानरः ॥' (भट्टिः 8-109)।
 
9
 
वितर्क-सम्भावना-पक्षान्तरयोतकत्वादयः किंवेत्यस्यार्थाः ।
 
-
 
जिज्ञासापूर्वको वितर्कः किंस्विदित्यस्यार्थः । यथा – किंखिद् वनं
क उस वृक्ष आसीद् यतो द्यावापृथिवी निष्टतक्षुः । ' (ते. ब्रा. 2-8-9-6)
 
(300)
 
" किल" (चा.)
 
आगम-अरुचि-न्यक्कार-सम्भाव्य हेतु अलीकादिष्वर्थेषु
 
आगमे – 'जधान कर्म किल वासुदेवः । (महाभाष्ये
 
चादिरयम् ।
 
3-2-111 ) ।